Gita-nectar: I - 361- 379


Previous page

देहः प्राणो मन इति भ्रान्ता मूढा वदन्त्यहो।
तदवच्छिन्न आकाशः तत्र तत्रापि वीक्ष्यतां॥३६१॥
आकाशो हि महादर्शः तदन्तर्दृश्य-कोटयः।
वीक्ष्यन्ते लौकिकैश्चात्र आधारो न हि वीक्ष्यते॥३६२॥
नाहं देहो न च प्राणः न मनो नेन्द्रियाणि च।
इत्येतेषु च वैराग्यात् औदासीन्यम् भवेदपि॥३६३॥
अतस्तेभ्यस्समुत्थाय तत्त्यागाच्च तदीक्ष्यते।
शून्यसाक्षी सर्वसाक्षी साक्ष्याभावाच्च साक्षिता॥३६४॥
विनश्यत्यपि तद्भावः ऐकात्म्येच गुरूदधिः।
स्वज्योतिषः प्रवेशेन देहादिश्च निरस्यते॥३६५॥
देहादिर्ग्रस्यते येन महाग्रासाय ते नमः।
नमस्कारः प्रह्वतेति मायया कल्पितस्य हि॥३६६॥
भेदेनाभासमानस्य जीवस्य तत्स्वरूपता।
तेन तादात्म्यसम्बन्धे परमां शान्तिमृच्छति॥३६७॥

महादर्शे दृश्यमान-प्रतिबिम्बानि वीक्ष्यन्ते महादर्शस्तु न वीक्ष्यते इति यत् अद्भुतं भाति। देहादीनां शून्यतां उक्त्वा
तत्र औदासीन्यमुपदिष्टं भवति। उदासीनवदासीन इति यद्गीतं उपेक्षामेव उपदिशति। स गुणैः न विचाल्यते। यतः
अन्योन्यस्मिन् वर्तन्ते इति भावपूततया एकभावावस्थानं अन्यभावानां मिथ्यात्वमुपदिश्य देहादि शून्यतां प्रतिपादयति।
शून्यतापि ग्रस्यते महामायाविना। तत्साक्षितया स्वस्यैव पूर्णत्व-वचनेन सर्वमोहनिवृत्तिकारीत्युच्यते॥

राहुग्रस्तेति श्लोकेन अज्ञानावृतिरुच्यते।
राहुणाग्रस्तवद्भानात् अग्रस्तोपि रविर्जनैः॥३६८॥
ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तु-लक्षणम्।
प्रकाश-निबिडस्सूर्यः नाच्छादयितुमर्हति॥३६९॥
छत्रेणाच्छादितस्सूर्यः इति लोके वदन्ति हि।
वस्तुतश्शिर एवात्र ह्याच्छादितमिति स्फुटम्॥३७०॥
अज्ञानेनावृतं ज्ञानम् कथमाव्रियते हि तत्।
कोटिसूर्याकृतिज्ञानम् स्वाज्ञानेनावृतं कथम्॥३७१॥
जीवस्यैवेहावरणं न तु ज्ञानघनस्य तत्।
अज्ञानावरणे चापि जीवेनैव तथाश्रिते॥३७२॥
न जानामीति चाज्ञानं नास्ति नो भाति चेत्यसौ।
देहद्वयस्य भानं तु विक्षेपाह्वयशक्तितः॥३७३॥
जीवत्वं भ्रान्तिरेव स्यात् सम्यग्ज्ञानाच्च नश्यति।
स्वेतराणां च कलनं समग्रं यत्र हूयते॥३७४॥

योगमायासमावृतोहं सर्वैरपि न ज्ञायते। मायाह्येषा मयासृष्टा इति भगवद्वचनं अवास्तवत्वेन
प्रतिपिपादयिषितुं विश्वरूपं लक्षयति। मायाया दुर्निरूप्यस्वभावात् दृश्यप्रपन्चस्य तथात्वात् आदर्श-
प्रतिबिम्बतुल्यत्वात् जगन्मिथ्येत्युच्यते। यदुदयास्तमनहेतुर्मायैव। श्रुतिवाक्यात् दृडीकर्तव्यास्मकं बुद्धिः
स्वेतरवासनानिरासात्। मायातत्वज्ञस्य मायाविनः माया न स्वविज्ञानमावारयितुं पारयति। स्वाधिष्टान-
निष्टात्यन्तोभावप्रतियोगित्वं मायात्वमिति वदन्ति। जन्यस्य जन्यत्वमेव मायिकत्वसमर्पकं। सत्तास्फूर्तिरूप-
सन्मात्रत्वं सर्वविकारेष्वप्यनुभूतं।सर्वव्यामोहकर्तॄं मां मायाशक्तिं धुनोतीति माधवशब्दनिरुक्ति-
रुक्ता। गुणानां युक्तिर्घटनं सैव माया। एषा न भागवती। मायाविनः भगवतः ज्ञानं प्रतिबध्नातीति
भाष्ये। सम्यग्ज्ञानं नाम। आभासमात्रमेवेदं नसन्नासज्जगत्त्रयं इत्यन्यकलनात्यागं वदन्ति
अनाद्यन्तावभासात्मा परमात्मैव विद्यते इत्येतन्निश्चयं स्फारं यस्य भवति स हि सम्यग्ज्ञः॥

सदात्मतत्त्वं सन्मात्रं अनन्तमिति यद्विदुः।
एको मुक्तिर्न्यास एकः पुरुषस्त्वेक ईरितः॥३७५॥
क्षराक्षरातीत एकः पुरुषो लभ्य एव हि।
देहाभिमानिपुरुषाः हूयन्ते दृश्यकोटयः॥३७६
मानसे सर्वहुद्यज्ञे स्वमात्रस्यावशेषतः।
सप्तमे प्रकृती उक्ते पुरुषः प्रकृतिस्त्विति॥३७७॥
त्रयोदशे पञ्चदशे पुरुषास्त्रय ईरिताः।
यथा तथा वा भवतु प्रथितः पुरुषोत्तमः॥३७८॥
निर्विशेषोत्तमज्योतिः सर्वाभिभवहेतुकम्।
वाचारम्भणमात्रत्वात् इतरन्मायिकं हि तत्॥३७९॥

मुक्तिर्नाम कैवल्यमुक्तिः। न्यासो नाम अतद्धर्मसम्बन्धपरित्यागः।पुरुष एकः पुरुषोत्तमः सहस्रशीर्ष-सहस्राक्षेत्यादि
श्रुतेः। पूर्वमेवाहम्-इहासमिति तस्य नित्यत्वम्। अतत्त्याग एव कैवल्यं इहापि भवत्येव। भूमिरापोनलो वायुरित्यादिभिः प्रकृति-
द्वयमुच्यते सप्तमे। त्रयोदशे तु पुरुषः प्रकृतिश्चैव इति शक्तिमान् एकोपि वस्तुद्वयमिव उच्यते। पञ्चदशे द्वाविमौ पुरुषौ
लोके इत्युक्त्वा तृतीयमपि गीयते। एकमेव वस्तु बहुधा गीतं सुखप्रतिपत्तये। पुरुषज्योतिषि अन्यत्वेन कल्पितं यत् तत्सर्वस्यापि
स्वातिरिक्तस्य मिथ्यात्वात् मिथ्याभूतानां शून्यतुलां दधतां पुरुषज्योतिष्येव होमः स्वावशेषतः समञ्जसमेव।

Onward to Next Page
Back to Titlepage Back to Links to Slokas of Chapter 1HOMEPAGE
Copyright V. Krishnamurthy Sep.21, 2010