Previous Page


Gita-nectar: I - 380-400

प्रकृतिं स्वां अधिष्टाय स्थूल-सूक्ष्म-शरीरभृत्।
तदा दृश्यं मोहकारि यद्ग्रासश्च सुषुप्तिता॥३८०॥
दृश्यं किं भूतजातं वा अभूताद्वेति दृश्यताम्।
अजातवस्तुनि भ्रान्त्या जातञ्चेतीदृशी मतिः॥३८१॥
अविचारकृतभ्रान्तिः अभूताभिनिवेशतः।
लोकरीत्या सत्यमिदं छायावद्दृश्यतेऽकले॥३८२॥
छायारूपाः कला ज्ञेयाः सन्मात्रारोपिताः खलु।
कलाध्यारोपापवाद-भासकं सत्स्वरूपकम्॥३८३
विकल्पिताश्च सन्मात्रे प्राणश्रद्धाम्बरादयः।
एतेषाञ्च पृथक्सत्ता सन्मात्रादन्यतो न हि॥३८४॥
अकलात्पुरुषाज्जाताः अज्ञानाभ्रेण वर्षिताः।
कलाष्षोडशविज्ञेयाः अस्तं यान्त्यकले नरे॥३८५॥

षोडशकलात्मप्रकृतिः अकले पुरुषे लयं याति। द्वैतसम्स्कारेण जातानां प्राणिनां कलाध्यारोपः पूर्वमेव
कृतः। तस्मात् तदपवादाय प्रवृत्ता श्रुतिः। येन रीत्या आगतं तेन रीत्या लयः कर्तव्यः। अतः कलासृष्टिः
उच्यते शास्त्रेषु यथाद्वैतं अनूद्यते।

छायादेहस्सूर्यभानं सूर्यान्नास्ति पृथक्त्विति।
छायाहेतुर्यदुपाधिः तत्र सूर्यः प्रकाशते॥३८६॥
पृथ्वी पाङ्तं सूर्यव्याप्तं भासते चाप्युपाधिषु।
सूक्ष्मतो दृश्यमाने च छायाप्यत्र प्रकाश्यते॥३८७॥
प्रतिबिम्बो यथा मिथ्या तथा छायापि निश्चिता।
छायेति नाम-मात्रं च वाङ्मात्रेण निरूप्यते॥३८८॥
घटादिवच्च न ग्राह्यः अवस्तुत्वाच्च सर्वतः।
सूर्याद्वारस्समुद्भूताः तथा छाया मनोहरा॥३८९॥
निर्गुणाच्च गुणा जाताः मायिकं सर्वमेव च।
सैवाहमिति सन्मात्रं अन्नपूर्णा-श्रुतिर्यथा॥३९०॥

छायेति पृथङ्निरूपितायामपि सूर्यादभिन्नतैव तस्या भवति। यस्मिन्स्थले छायादर्शनं तत्र सूर्यः अस्ति वा न वा। सूर्यः नास्ति चेत्
कथं छायाया आगमनम्। छायाहेतुभूत उपाध्युपरि सूर्यप्रकाशस्य सत्वादेव छायेति नाम श्रूयते। सूर्यादाविर्भूता छाया
सूर्य एव लयं गच्छति उपाधिविरामे। स्थलान्तरगमनस्य छायाया अशक्यत्वात्। छायासम्ज्ञे रूपनाम्नी सूर्यस्यैव पत्नीत्वेन
उच्येते। तथैव निर्गुणादेव गुणानामाविर्भावः।सगुणे निर्गुणः देवः।

मायाच्छादनमेतस्य मेघेनैव विहाय सः।
मायाया अपि भास्यत्वात् सन्मात्रं द्योततेत्विह ॥३९१॥
स्वयमस्पृष्टरूपेण नित्यानन्दं परामृतम्।
सुप्तेषु करणेष्वेव बुद्ध्या सह विपश्चितः॥३९२॥

मेघच्छन्नस्य अह्नः दुर्दिनत्वेन उक्तत्वात् स्वरूपं अज्ञानाख्यमेघेन यावता आच्चाद्यते तावत्पर्यन्तं दुर्दिनमेवास्माकं
मेघापाये अम्शुमान् यथा प्रकाशते तथा अज्ञानपगमे विज्ञानसूर्यः मङ्गलत्वेन मोदकरो भवेत्। करणेषु जाग्रत्सु
पूर्णसुखं नानुभूयते। करणप्रवृत्ते बाह्यप्रधानत्वात्।

मायानिरीक्षणादेव माया चापि विनश्यति।
निरीक्षणं ध्यानपूजा संध्यायाश्च विधीयते॥३९३॥
निरीक्षणं मुहूर्तं तु रामानुग्रहसाधकम्।
नादरूपो हि भरतः गुर्वीं मूर्तं तदाकरोत्॥३९४॥
नैर्गुण्यं परमं तेजः दृष्टवान् परमाद्भुतम्।
मायायास्सन्ततध्यानं स्वाखण्डशरणागतिः॥३९५॥
सुप्तिकाल-सुखद्रष्टा नित्यशुद्धस्सनातनः।
पादत्रयैरुपायाख्यैः पद्यते ह्यक्षरं पदम्॥३९६॥
विकारजातमश्नोति व्याप्नोतीत्यक्षरं विदुः।
अमूर्तमक्षरं व्योम दक्षिणामूर्तिरीश्वरः॥३९७॥

दृश्यस्य सर्वस्यापि मायारूपत्वात् तद्द्वारा निरीक्षणं परमात्मनः विहितं यथा भरतः चित्रकूटे मुहूर्तं रामं निरीक्ष्य
गुर्वीं मूर्तिं तमकरोत्। तस्मात् दृश्य-निरीक्षण-पाटवं सम्पाद्यं।तत्रैव गीतामृतमहोदधिमपि पश्यन् नानाविध-
अवतारमूर्तीरपि द्रष्टुं पारयति स्वानन्यया भक्त्या॥

बालोऽहं च कुमारोऽहं युवाहं वृद्धतां गतः।
स्थूलोऽहं रक्तवर्णोऽहं पश्यामीत्यादि जागरे॥३९८॥
स्वप्नेहं गजमद्राक्षं सुषुप्तौ सुखवानहम्।
इत्यादि वृत्तिष्वेतासु चिदानन्दरसामृतम्॥३९९॥
अज्ञातं वापि ज्ञातं वा अनुभूतं जनैः किल।
अवस्थासु च सर्वासु एक एव रसानुभूः॥४००॥

देहात्मभावनयैव बाल्यकौमारादि अनुभूयते जनैः। देहादिभ्यः यदा अहंता ममता च निवर्तेते तदैव पूर्णरसानुभवः साध्यः।
देहाद्यात्मभावनाकालेपि पृथक् पृथक् अवस्थासु यत्सुखमनुभूयते तदपि अन्तस्स्थ रसानन्दाम्श एव इत्याशयः एतस्यैवानन्दस्य
अन्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः। एक एव रसानन्दघनः रसानुभविताप्येक एव। त्रिपुटीकलनावर्जित-रसानुभवः महतोपि महीयान्।
रुद्रावृत्ति रसापार-तत्पदार्थ-विशोधनात्॥

Onward to Next Page
Back to Titlepage Back to Links to Slokas of Chapter 1HOMEPAGE
Copyright V. Krishnamurthy Sep.25, 2010