Previous page

Gita Nectar I-401-432

रसो हि व्यापकं ब्रह्म स दृष्टो मृडयाति नः।
रस एकस्सर्वगश्च एष ह्येवानन्द याति॥४०१॥
रसैकं सममद्वैतं अजरञ्चामृताभयम्।
अविक्रियमजं तत्त्वं ब्रह्मैवस्म इतीरितः॥४०२॥
बार्हदारण्यके भाष्ये ब्रह्मैतीक्यौपचारिकम्।
न तस्य प्राणोत्क्रमणं आत्मकामस्य धीमतः॥४०३॥

सत्वप्राधानिको माधुर्यरसः चैतन्यात्मकः। चतुर्थाध्याये चतुर्थब्राह्मणे षष्ट-मन्त्र-भाष्ये
अद्वैतं सामगानं स्पष्टं निरूप्यते। स्वात्म-तत्व-प्रकटीकरणमेव सामगानम्। एतत्-सामगायन्नास्ते
इत्यत्रापि एवमेव समत्वगीतिः उररीकृता॥

रसत्वेनोक्तकोशाश्च ह्यात्ममायाविसर्जिताः।
रसो हि परमं ब्रह्म रस एव च कान्तिदः॥४०४॥
सूर्याग्नि-वायु-चन्द्रादिः वृत्तिव्याप्तश्च भासते।
वृत्तिव्याप्तानि दृश्यानि वृत्त्यन्यन्न हि किञ्चन॥४०५॥
वृत्तेर्धी-परिणामत्वात् धीश्च तेजोमयी चितिः।
चितिश्चेत्यमिदं सर्वं चितेरन्यन्न्न किंचन॥४०६॥
आपो हि वृत्तयः प्रोक्ताः योवश्शिवतमो रसः।
इति सात्विकवृत्तिश्च प्रार्थ्यते ब्राह्मणैस्सदा॥४०७॥
मधु वाता ब्रह्म मेतु इति मन्त्रा रसाप्रदाः।
गायत्र्या चाभृतस्सोमः ब्रह्मविद्या रसप्रदः॥४०८॥
रसानुभवपूत्यैव सदाहमहमेव च।
इत्यहंकारवाक्यानि श्रूयते सर्वतो जनात्॥४०९॥

बहवो मन्त्राः आत्म-मधु-रसमेव क्षरन्ति। अत एव वाल्मीकेरुद्भूत-वेदरूप-रामायणे मधुरं मधुराक्षरं इति
माधुर्यरस-पूर्ण-श्लोकाः दृश्यन्ते। मधु जनिष्ये इत्यादयश्च अनुसन्धेयाः। मधुनिलिल्युरशेषरसाः इति
सर्वस्यापि आत्मानुप्रविष्टत्वात् भावनासाध्यं भवति मधुपूरणं॥

आत्माध्यासमहंकारे चात्मीयं स्त्री-गृहादिषु।
आत्मात्मीयं च देहादौ मोहास्सर्वेपि लौकिकाः॥४१०॥
मोहत्रयस्य भङ्गार्थं अद्वैत-ज्ञप्तये सदा।
उपवीतं धार्यते च सार्वात्म्य-ज्ञापनाय च॥४११॥
इदं सूत्रं च यज्ञार्थं स्वरूपं सूचयत्यपि।
नीयते यज्ञनिकटं पुरुषो विद्ययापि च॥४१२॥
अहं ज्योतिस्सदा भाति नीयतेचोपदेशतः।
तदाप्येतन्निगृह्णन्ति स्वाहंकारेण पीडिताः॥४१३॥
व्यष्ट्यहंकाररोधेन पराहन्तोपदिश्यते।
छान्दोज्ञेप्यहमादेशः सप्तमे पञ्चविंशके॥४१४

जनस्य मोहोऽयं अहं ममेतीति श्री शुकोक्त्या मोहस्त्रिविध इति तन्नाशाय यतितव्यमिति यदुपदेशः गीतः सार्थको
भवदर्जुनस्य विषये यतस्तस्यैषोक्तेः मोहो नष्ट इति। अहंकारो हि महाशत्रुः। जहि शत्रुं महाबाहो इति स्मरणात्।
ब्रह्म-निकट-प्रापक-उपवीतधारणं तन्मन्त्रार्थ-विचारेण सार्थकं भवति। हम्सरूपं यज्ञसूत्रं स्वम् रूपं
द्योतयत्यहो। एवं मोहभङ्गाय उपदिश्यते गुरुभिः भद्रमुद्रयेत्याह॥

भद्रा मङ्गलदा मुद्रा स्वात्मैक्यं ज्ञापयत्यपि।
श्रीगुरुः करुणामूर्तिः रामकृष्णादयो यथा॥४१५॥
एकभावो ज्ञानमिति सर्वभूतेषु चेरितं।
योऽस्मिन्देहेत्वहमहं इत्येवं अनुवर्तते॥४१६
स हि नित्यस्सदानन्दः द्रष्टव्यस्सर्वतोऽपि च।
नान्यद्वस्त्वस्तिचेहेति ऐक्यमुद्रा प्रदर्श्यते॥४१७॥
तर्जन्यङ्गुष्टयोगेन जीवान्नान्यस्तथेश्वरः।
अखण्डपरिपूर्णस्य प्रतिबिम्बो न वास्तवः॥४१८॥
न बाधकं चाप्यद्वैतं व्यवहारस्य सर्वथा।
इति मुद्रा-रहस्यं च संग्रहेणेह सूच्यते॥४१९॥
आवाहनादिमुद्राश्च स्वहस्ताङ्गुलिचेष्टितैः।
प्रदर्श्यन्ते बहुविधं पूर्वाचार्यैर्यथा कृतम्॥४२०॥
नामरूपादिभेदेपि हस्ताङ्गुल्यैकरूपता।
निश्चितेप्येकरूपत्वे चेष्टा बहुविधास्तथा॥४२१

स्वात्म-मात्रावशेषित-वेदान्तजातं भद्रमिति बुद्ध्यात्मनोरैक्यकरणरूपकल्याणे पर्यवस्यति। मङ्गं जनन-
मरणादि संसार-रूपं येन छिन्नं भवति तदेव मङ्गलं मङ्गलानामपि द्वैतस्य भयप्रदत्वात् अद्वैतमेव
अभयं सर्वतोऽपि वैराग्यहेतुत्वात्। सर्वतोऽपीति कल्पित-प्रपञ्चात् आवृत्त-चक्षुरित्यर्थः।तस्य धिय एव प्रत्यक्प्रवणता
भवति। भद्राकृतिः शिव एव गुरुः। भद्रं असम्भावनादि विकलं ऐक्यज्ञानमासं (Note by VK: Here the writing is not clear)

स्वस्य रूपस्य चैकत्वे विविधं कर्म दृश्यते।
दृश्यमानानि रूपाणि ह्याकर्षन्ति जनानिति॥४२२॥
चिन्तयेज्जागतं वाक्यं श्रुत्या युक्त्यानुभूतितः।
विचित्य सर्वरूपाणि चेति श्रुत्या विचिन्तयेत्॥४२३॥
स्वाविद्या गोचराण्येव मिथ्याभूतानि सर्वशः।
धीरो विद्वाम्श्च सम्यग्ज्ञः अध्यात्मज्ञानचक्षुषा॥४२४॥
सितासितादिरूपेण चक्षुश्शब्दाभिधेयतः।
प्रकाश्यमात्रं रूपं च अनात्मा जडमित्यपि॥४२५॥
यत्साक्षादपरोक्षं यत् ब्रह्मपूर्णं न हि क्वचित्।
तस्मादस्मद्विरज्येत यथा प्रत्यगवेक्षणम्॥४२६॥

अङ्गचेष्टाभिः नात्मलेपः इति बोधार्थं मुद्राः प्रदर्श्यन्ते। चिन्मुद्रया च जीवब्रह्मणोरैक्यं
अष्टप्रकृतिजयेन द्योत्यते। प्रत्यगभिन्न-ब्रह्मज्ञानेन व्यवहारस्य हानिर्माभूत् वैदिक-कर्मणो वाऽपि॥

बुद्धिर्मनश्-चक्षुरादि सर्वं हि जडमेव च।
नाम्नीकृत्य च रूपाणि यदास्तेभिवदन्निति॥४२७॥
एतन्नाम-विशेषाणां शब्द-सामान्य-मात्रतः।
यः कश्च शब्दो वागेव वाचो नाम्नाम् च सम्भवः॥४२८
यज्ञदत्तादि नामानि नाम-सामान्यतः स्वयम्।
उत्पद्यन्ते विभज्यन्ते स्वरूपस्य प्रदानतः॥४२९॥
विशेषाणाम् च सामान्ये कार्याणां कारणेऽपि च।
अन्तर्भावो यतश्चेष्टः सिद्धा च शब्द-मात्रता॥४३०॥
सर्वकर्मविशेषाणां क्रिया-सामान्यमुच्यते।
नामरूपं च कर्मेति अन्योन्याश्रयमीरितम्॥४३१॥
इतरेतराभिव्यक्ति कारणं सम्हतं च यत्।
त्रिदण्डविष्टम्भवच्च सदेकत्वमिहोदितम्॥४३२॥

त्रयं वा इदं नामरूपं कर्म इति बृहदारण्य-प्रथमाध्यायगत षष्टब्रह्मणोक्तरीत्या त्रयमपि अनात्मैव।
तस्मादस्माद्विरज्येत। ज्ञानघनमेव बुद्ध्यादिरूपेण भाशते॥

Onward to Next Page
Back to Titlepage Back to Links to Slokas of Chapter 1HOMEPAGE
Copyright V. Krishnamurthy Sep.29, 2010