Previous Page

GItA-Nectar I-433 -452

कार्यात्मके नामरूपे प्राण एव क्रियात्मकः।
प्राणश्च सत्यममृतं तयोरेवोपष्टम्बकः॥४३३॥
मर्त्याभ्यां नामरूपाभ्यां स्वमृतं छन्नमुच्यते।
नामरूपात्मकं विश्वं विकार्येव प्रतिक्षणं॥४३४॥
विविधं श्वयमानं च नामृतं स्प्रष्टुमर्हति।
समग्रमपि यद्रूपं नाममात्रे च दृश्यते॥४३५॥
रूपैर्नामानि बोध्यन्ते ऐकात्म्यं नामरूपयोः।
नामान्तरस्ति रूपं च रूपान्तर्नाम चाप्यहो॥४३६॥

ऊर्ध्वपवित्रि वजिनीव स्वमृतमस्मीत्यत्र यथा सवितरि अमृतं आत्मतत्त्वंप्रसिद्धं तथा शोभनं भद्रं मङ्गलप्रदं
आत्मतत्त्वं अहमेवाहम्। तदेव दीप्तिमद्द्रविणं अस्माकम्। विविधं वर्धते किल विश्वं बहुधा। तथापि स्वमृतं न
स्प्रष्टुम्-अर्हति॥

व्यक्ताक्षराण्युमारूपं अव्यक्तोर्थस्स ईश्वरः।
योसावतीन्द्रिय-ग्राह्यः उमाया हृदयं हि सः॥४३७॥
अर्धनारीश्वरं रूपं वागर्थौ च जगत्पतिः।
तादात्म्यमुभयोश्चापि न पृथक्-दृष्टि-हेतुकम्॥४३८॥
प्रवहत्यपि नीरेधः स्थिरा प्रौढशिला यथा।
सर्वनामसु रूपेषु सत्यमेकत्व-भावना॥४३९॥
प्राणादीनाम् च चलने अप्राणोह्यमनः शिवः।
कामतोव्यवाहारेऽपि निष्कामो निष्क्रिया ह्यसौ॥४४०॥

बाल्यादिषु अवस्थासु सर्वे व्यवहाराः नामरूपात्मकाः अन्वय-व्यतिरेकाभ्यां आत्मैव सर्वत्र स्यात् अनुभूततया
अक्षरात्मकानि रूपाणि वाङ्नामभिः रूप्यन्ते। अत्र अग्राह्यं यद्वस्तु नाम्नामर्थतया उच्यते तत् रुद्रशब्देन उच्यते।
नीरान्तः प्रौढशिला यथा स्थिरतया प्रवाहाद्यन्तयोरपि वर्तते तथा नामरूपात्मकप्राणादीनामपि चलने अप्राणं
अमनं च तत्त्वं वृक्ष इव स्तब्धतया यद्वर्तते तदेवाहं निष्क्रियात्मरूपम्॥

तद्रसस्सर्वतो भाति बुभुत्सा वर्तते यदि।
आत्माख्यं मधु सर्वत्र आर्षे यश्चोद्धरत्यहो॥४४१॥
एवञ्च राममन्त्रस्य माधुर्यरस-वीक्षणात्।
सीता शिवश्चाञ्जनेयः वाल्मीकिः कौशिकादयः॥४४२॥
रसाभिषेचान्नित्यं गायन्तः साम-वैभवं।
एवमात्मप्रकटनं सामगानमितीरितम्॥४४३॥
नादब्रह्ममहद्गानं प्रत्यक्प्रवहतीति यत्।
एकभावञ्च सज्ज्योतिः जयत्यखिलभावतः॥४४४॥
कनकैकमहाबुद्धिःभूषणेष्वनुवर्तते।
सर्वत्रानुस्यूतया गुरुर्निष्प्रतियोगिकः॥४४५॥

ज्योतीरसामृतस्य सर्वगत्वात् कल्पित-जगत्प्रतिबिम्बेषु तद्भावाभावप्रकाशक-ज्योतीरूपेण अनुप्रविष्टत्वात्
नामरूपात्मव्यवहारेषु सर्वावस्थास्वपि अहमेव विभामि। एतादृश-ज्ञान-प्रतिबन्धक-मायाया अपि
भासकरूपी यः स गुरुरेकं ब्रह्म-विन्न्यासी नाहं करोमि किञ्चिदपि इत्यनुभवी महान्॥

विश्वं पश्यतिमन्त्रेण भेदो नास्तीति वेदवित्।
ब्रह्मात्ममेकं विज्ञानं ज्ञातृज्ञेयादिरूपतः॥४४६॥
प्रतिबिम्बाधितं विश्वं न सत्यं वक्तुमर्हति।
यत्र यद्दृश्यते तत्र तत्स्यादित्यप्यपेशलम्॥४४७॥
दृष्टिर्मानञ्च न भवेत् नेत्रसम्योगतोऽपि च।
रूपदृष्टौ च यन्मानं अमानं गन्ध-दर्शने॥४४८॥
प्रमाणादिविभेदोऽयं दृष्टः केनापि कुत्रचित्।
प्रमाता च स्वतस्सिद्धः चैतन्य-स्वप्रकाशतः॥४४९॥
अस्मात् साभास-वृत्त्याख्य-मानोत्पत्तिस्तथेरितः।
मेयेन मानसंयोगे तन्मेयाकारताम् भजेत्॥४५०॥
प्रमातुर्मेयता नास्ति मेयत्वे मातृता न हि।
मेयस्य भासकं मानं मनसो वृत्तिरेव यत्॥४५१॥
अध्यासादात्मनो भातं इव मानं प्रकाशते।
अध्यस्तं ज्ञानतत्कार्य-बाधयैव हि केवलम्॥४५२॥

चक्षुषा घटः दृश्यत इति घटदर्शने चक्षुः मानं भवति। गन्धज्ञानं चक्षुषा न जायते। अतः चक्षुरत्र मानं
न भवति। कुतः एवमिति न कोऽपि वक्तुं शक्नोति। प्रमाता नाम अन्तःकरण विशिष्टचैतन्यं स्वतस्सिद्धचैतन्यस्य
सर्वगस्य अन्तःकरणसम्बन्धेन प्रमातेति नाम्ना प्रथितो भवति। अस्मात् सर्वाधारात् वृत्तिः साभासः जायते। मानञ्च भवति।
बाह्यविषयस्य मेयमिति नाम मानसं योगे। अन्तःकरणोपहित चैतन्यस्य साक्षीति नाम। साक्षी न कदापि साक्ष्यं भवति।
न माता वा मेयं भवति। यदि मेयं स्यात् तदा मातृत्वं विनश्यति। यत् साक्ष्यं तत् साक्षि न भवति। मानं मेयं भासयति।
मनसो वृत्तिरेव तत्। मानं यदा भासते मनोवच्छिन्नचैतन्यभानमेव अज्ञानतत्कार्यं बाधित्वा माने अध्यस्यते
मातृ-मान-मेयानां एकताज्ञाने॥

Onward to Next Page
Back to Titlepage Back to Links to Slokas of Chapter 1HOMEPAGE
Copyright V. Krishnamurthy Sep.29, 2010