Continued from page 13
72. Ekaksharopnishhat 

एकाक्षरो यज्ञमूर्तिः प्रत्यक्षो ह्यनुभूयते।
ऋतं सत्यं ज्ञानरूपं चक्षुर्वाचामगोचरम्‌॥१५९॥
बुद्ध्यं बाद्ध्यं परं तत्वं वेत्तृ वेद्यादिवर्जितम्‌।
अत्रिज्ञानं सदा सत्यं त्रिकं यत्र च पीड्यते॥ १६०॥

अखण्डितसर्वात्मकरूपमेकाक्षरम्‌। तत्प्रणवात्मकं सर्ववाच्यवस्तु इति अथर्वशिखापि। प्रत्यक्षतो दृश्यमानं ब्रह्माकाशमेवान्यथा गृह्यते
पूर्वसंस्कारवशात्। एष हि देव इति स एव यज्ञमूर्तिः प्रजापतिसृष्टयज्ञः प्रजापतिरेव आनन्दघनत्वेन सर्वैरप्यनुभूयते। तस्य अतीन्द्रिय-
ग्राह्यत्वादेव अग्र्या बुद्ध्या दृश्यत इति। तदेवर्तं तदु सत्यमाहुरिति नारायणोपनिषच्च तथापि बुद्ध्याबोद्ध्यं इति वक्तुं न शक्यं तस्यैव
बुद्ध्यात्मकत्वात्। अत्रि त्रिपुटीवर्जितमित्यर्थः। द्वितीयवस्तुनः अभावादेव एकाक्षरात्मतया वेद्यं दृश्यजातमखिलं अधिष्ठानावशेषतया
कल्पितवस्तूनां नाशात्। अध्यारोपितं अपनुद्य सर्वगज्योतिरेकमेव निष्प्रपञ्चं स्वीयं स्वातिरिक्तासहं तेजः॥

73. Annapurnopanishhat 
अन्नपूर्णा विशालाक्षी दिवीव चक्षुराततम्‌।
विकसितेन नेत्रेण ध्रुवं तत्वं च पश्यति॥ १६१॥
तिष्ठन्‌ गच्छन्‌ स्पृशन्‌ जिघ्रन्‌ अपि भावो न भाव्यते।
पञ्चभ्रमनिवृत्तिस्तु स्फुटं स्फुरति चेतसि॥ १६२॥
अद्वैतं सर्वमित्येव भाविते पुरुषोऽद्वयः।
एकभावो ह्येकरूपः विश्वरूपो महानिति॥ १६३॥

पराशक्ति कटाक्षेण आत्मैक्यज्ञानं स्फुरत्येवेति मन्त्रप्रभाव उच्यते। मन्त्रश्च ऐं ह्रीं सौं श्रीं क्लीं ओं नमोभगवत्यन्नपूर्णे
ममाभिलषितं अन्नं देहि स्वाहेति। बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमः स्फटिकलोहितदर्शनेन कर्तृत्वभ्रमः घटमठाकाश-
दर्शनेन संगीतिभ्रमः रज्जुसर्पदर्शनेन जगत्सत्यत्वभ्रमः कनकरूचकदर्शनेन विकारित्वभ्रमश्च निवृत्ता भवन्ति।
महासत्ता महाचित्‌ ब्रह्मानन्दरूपिणीति विशेषेण अन्तर्मुखानां चिदाकाशत्वेन स्फुरति। सर्वत्रापि अन्तरीक्षणमेव विहितम्‌।
अनुभवैकवेद्यत्वात्‌ परिपूर्णमनोगतिः मेरोः स्थिरतरा गतिः समाधिरिति श्रूयते। एकनिश्चयमयो विद्वान्‌ पुरुषः। नित्यभानात्मकः।
महादर्शायितस्वात्मन्यनन्ते प्रतिबिम्बन्ति वासनावशात्‌। सवासनं मनो नास्तीति यन्निश्चयः तदेव तत्वज्ञानमित्यत्र विवक्षितम्‌।
देहात्मता शान्तिरेव ह्यग्र अपेक्षते। स्वस्वरूपतरंगा इमे। ब्रह्मैवाहमित्यत्रपि पराहन्ता स्वरूपमेव रहस्यम्‌॥

भूमिकासप्तकमप्यत्र विव्रियते। स्वातिरिक्तस्वाविद्यातत्कार्यप्रपञ्चस्य अत्यन्तासंभवप्रबोधपूर्वकं साक्ष्यवस्थाव्यवहृतिरेव
सारसारतया निगद्यतेऽत्र॥

74. Suryopanishhat
आददानः कर्मफलं आयात्यादित्य एव हि।
हिरण्मयेन देहेन चित्सूर्यो भाति सर्वतः॥ १६४॥

ज्योतिरेवैनं पश्यतीति श्रुत्या देहेन्द्रियादयोऽपि ज्योतिरूपाः। श्रियः प्रसविता सवितैव सर्वत्र प्रकाशघनात्मकः॥

75. Akshyupanishhat
अक्षितेजो महासेनः सज्ज्योतिरमृतं नयेत्।
स्थूलसूक्ष्मक्रमात्सर्वं स्वज्योतिषि विलापयेत्॥ १६५॥

ज्ञानरश्मिः पुरुषः उदयतीव प्रतिवृत्तिषु दृश्यते। साभासवृत्तीनामेव उदयः प्रतिक्षणम्। अत्रपि भूमयः सप्त विव्रियन्ते॥

76. Adhyatmopanishhat
अहंधीर्देहरूढेति देहश्चापि मनोगतः।
सवासनाः पदार्थाश्च शाम्यन्त्यायतने सदा॥ १६६॥
इत्यध्यात्म्यरसं तत्वं प्रत्यग्ज्योतीरसोऽहमोम्।
स्वसार्वात्म्यविदो धीराः जीवन्तोऽपि विदेहगाः॥ १६७॥

अहमेव केवलं सत्तासामान्यज्योतिः सर्वविकल्पास्पदं यद्ज्ञानादेव विकल्पनाशो भवति॥

77. Kundikopanishhat

जपन्नाध्यात्मिकान्मन्त्रान् विश्वं स्वस्मिन्प्रकल्पितम्।
कुण्डिकोपनिषद्वेद्यं अहंकारित्वमात्मनः॥ १६८॥

अविकार्योयमुच्यत इति गीतोक्त्या तस्य नैरन्तर्यस्मरणाय औपनिषन्मन्त्रान् जपेत्।यैरैव ऐश्वरं तत्वं मनसि प्रतिष्ठितं भवति।
अविकारीत्युपलक्षणम्। षड्विकारहीनत्वं विवक्षितम्॥

78. Saavitropanishhat
सावित्रोपनिषद्वेद्यं सविता मन एव हि।
वाक्सावित्रीति विज्ञेया ऐक्यमप्युभयोः किल॥१६९॥
बलातिबलमन्त्रौ तौ द्वावत्र पठिताविह।
सावित्री बुद्धिशक्तिश्च बुद्ध्याधारात् पृथङ्न हि॥ १७०॥

सर्वभर्जकसावित्रीमन्त्रः पराशक्ति-प्रतिपादकः। शक्तिरेका विविधा अभिव्यज्यते।भोगे भवानी पुरुषे च शक्तिः कोपे च काळी समरे च दुर्गा इति
एकशक्तेरेव विनियोगः पठ्यते। शक्तिमत्तेज एव इत्यद्वैतं विवक्षितं शास्त्रेषु॥

79. Atmopanishhat
नावृतिर्ब्रह्मणः काचित् अन्याभावादनावृतम्।
व्योमवच्चाद्वैतभावः अशरीरी सदा बुधः॥१७१॥
दृश्यन्ते सर्व आभासाः चलन्ति प्रतिबिम्बवत्।
उपाधीनाञ्च चलनं सर्वत्रापि प्रतीयते॥ १७२॥
वेषधारीव शैलूषः सर्वगो निश्चलः पुमान्।
आत्मोपनिषदं तत्वं स्वञ्च निष्प्रतियोगिकम्॥ १७३॥

महतोमहीयस्त्वात् ब्रह्मणः तद्व्यतिरिक्तवस्तुनः अभावात् कथमत्र आवरणसम्भवः। अत्यन्तासद्वस्तुना अज्ञानेनैव आवरणं गीयते। अज्ञानं नाम ज्ञानाभावः। अज्ञानाभावे जगतोप्यभावः। केवलाकाशकल्पो हि ज्ञानम्। अज्ञानकल्पित उपाधीनामेव चलनं दृश्यते।  तेषाञ्चागमापायित्वात्
मिथ्येति सिद्धान्तः।एकभावग्रहणमेव शास्त्रार्थ इति तन्निष्ठताव्य्वहारः सेत्स्यति॥

80. PAshupatabrahmopanishhat
पाशुपतब्रह्मविद्या अभेदोंकारहंसयोः।
हम्सोन्तः प्रणवो नादः सर्वास्पृष्टत्वमुच्यते॥ १७४॥

हम्सार्कप्रणवध्यानं आत्मैकत्वं गमयति। तत्तद्विषयाननुप्रविश्य ज्योतीरूपः परमात्मा तत्तदिन्द्रियद्वारा प्रवर्तयति।
प्रवर्तकत्वमपि माययैव। न स्वभावतः। स्वस्यैव तज्ज्योतीरूपत्वात् सर्वं स्वात्मन्येव पश्यति। गगनसदृशस्वरूपस्य
गत्याधिकं न सम्भवति॥

At this point, the author appends a long footnote on aspRRishhTatvaM , for which see here

81. Parabrahmopanishhat
परब्रह्मोपनिषदि ज्ञानयज्ञोपवीतिनः।
स्वतोभातरहस्यार्थाः कर्ममर्मविदस्सदा॥ १७५॥

यस्य गुर्वात्मदेवताभक्तिः पूर्णरूपत्वेन अनन्यत्वेन च वर्तते सः भातवेदार्थाः कर्मरहस्यविच्च। अधिष्ठानं तथा कर्ता करणञ्च इति
गीतोक्तरीत्या गुणानामेव कर्तृत्वं न तु अगुणस्यात्मनः। यज्ञो हि ज्ञानमूर्तिः तत्तादात्म्येन ब्रह्मनिकटवर्तिनः यज्ञोपवीतिनः॥