Continued from page 12

61. Sandilyopanishhat

अकारमूर्तिर्गायत्री रक्ताङ्गी हंसवाहिनी।
उकारमूर्तिः सावित्री श्वेताङ्गी तार्क्ष्यवाहिनी॥ १३८॥
मकारमूर्तिः कृष्णाङ्गी वृद्धा वृषभवाहिनी।
एकाक्षरं सर्वहेतुः सर्वं ज्योतिश्च खं मयम्॥ १३९॥
शाण्डिल्यात् खेचरी भूत्वा सर्वात्मानं विशत्यहो।
सर्वं च खं मयं कृत्वा न किञ्चिदिति चिन्तयेत्॥ १४०॥

परं ब्रह्म बृहति बृंहयति च। आत्मा सर्वमाप्नोति सर्वमादत्ते सर्वमत्ति च। महत ईशः शब्दध्वन्या च आत्मशक्त्या च महत ईशते इति महेश्वरः। सुदुश्चरं तपस्तप्यमानाय अत्र ये भगवता ज्योतिर्मयेन आत्मैव दत्तः इति दत्तात्रेयः। यमाद्यङ्गानि उक्तनि॥

62.Paingalopanishhat

ज्ञानामृताक्ल्प्तयोगी स्वञ्च निष्प्रतियोगिकम्।
सर्वत्र पश्यन् मनसा पैन्गळाद्वैतरूपकः॥ १४१॥

पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति। अहं ब्रह्म सर्वगतः इति ज्ञानेन दीपिते देहे बुद्धिः अखण्डाकाररूपा यदा भवति तदा विमुच्यते सर्वबन्धेभ्यः। चिदम्बरस्य अद्वैतरूपस्य परमेश्वर इति नाम। उन्मनी भाव एव परमं पदम्॥

63. Bikshukopanishhat

भैक्षुकत्रैपदं तत्वं अतिवर्णाश्रमं विदुः।
आत्मानं सर्वतो व्याप्तं स्वपूर्णत्वेन पश्यति॥ १४२॥

अष्टग्रासैर्भैक्षाचरणमिति प्रकृत्यष्टकं कबळितं पुरुषत्वेप्यवतारयति। उपेक्ष्य च मनोभावं उन्मनं भवति। सर्ववर्णेषु भैक्षाचरणमिति सर्वं नास्तीति धारणया सर्वत्र आत्मैव इति दर्शनात् सर्वपदार्थेभ्यः क्षरन्तं मधु सर्वत्र पश्यति एतस्य माधूकरं इति नाम।  परोक्षप्रिया इव हि देवाः इति पारोक्ष्योक्तिभिः मुदं कुर्वन्ति देवाश्च ज्ञानिनोऽपि॥

64. Mahopanishhat

परमाद्वैतसाम्राज्यं यन्महश्च चिदम्बरम्।
प्रत्यक्ज्योतिर्द्वादशान्ते सर्वधीषु विलासतः॥ १४३॥
नृत्तञ्च बहुधा कुर्वन् संविन्मात्रे महीयते।
चिदचैत्याकिलात्मेति सर्वसिद्धान्त-संग्रहः॥ १४४॥

अखण्डचित् खमिति सर्वासु बुद्धिवृत्तिषु सदा प्रकाशते। अवभासात्मकज्योतिषि जाज्वल्यमाने तदन्तरवस्थितिं विना कथमन्यत्र दृश्यस्य अवकाशः इति दृश्यात्यन्तासम्भवः अत्र प्रतिपाद्यते। जनिमृतिर्वा गत्यागमनादि वा न कस्यचित् सम्भवति। वासनादुष्टबुद्धिविलासेन विना परमार्थतो न कस्यापि सम्भवः। ईक्षेत विभ्रममिदं मनसो विलासं दृष्टं विनष्टं अतिलोलं अलातचक्रमिति श्रीभागवतोक्तेः। शरीरेन्द्रियादिःमनसैव स्ववासाय  कल्पितः। स्वमात्रतया राजमानमह एव यस्साक्षात्करोति स्वातिरिक्तमत्यन्तं यः उपेक्षते च स हि जीवन्मुक्तः। चिदाकाशवस्तुलेपस्य अवकाश एव नास्ति वस्त्वन्तरस्याभावादेव। तादृश औदासीन्येन चेष्टामात्रौ यः करोत्येव नित्य-नैमित्तिक-कर्माण्यखिलानपि।स एव जीवन्मुक्तो भवति।
धर्माधर्मयोः करणाकरणेऽपि बुद्धिरेव हेतुर्भवति। चैत्यरहितचिन्मात्रभावनमेव कर्तव्यं च सर्वतः। चिदेव देहश्चिदिमे च लोकाः  चिदेव भूतानि चिदिन्द्रियाणि इति श्रुतेः। अहं करोमि पश्यामीत्यादि अध्यास एव तस्य नास्ति। अहंताया एव सर्वगत्वात्। मननेनैव जीवनादिरिति मनुष्यत्वमाहुः जनिगतिमतां जनानाम्। सर्वेन्द्रियाणां विषयदाः स्त्रियः सर्वथा त्याज्याः। तत्सङ्गिसङ्गोऽपि त्याज्यः। सर्वधर्माचरणमपि स्वसन्निधिमात्रेण  यथा आदित्यसन्निधौ लोके चेष्टा भवन्ति। विज्ञानविध्वस्तमेव सर्वं जगत् चेष्टामयम्। स्वस्य अन्यस्य वस्तुनः अभावात् मनस्यैव सर्वस्यापि प्रतिष्टितत्वात्। निष्कामतया परिपूर्णस्य आत्मनः कथं इष्टानिष्टादि संभवः। तस्मात् स्वेप्सितत्यागः अत्र विहितः। अशनायापिपासादिः
मनसः व्याधिरित्येव तच्चिकित्सार्थं उपायोऽपि कथ्यते। स्वयंभूतमनोरूपाख्यब्रह्मणा जगद्विस्तारः क्रियते। अखण्डरूपस्य चितेः चलनमेव नास्ति। चलतीति भाव्यते चेत् तदेव मन उत्पद्यते चित्ताकाश इति नाम भवति। न जायते न म्रियते इति श्रुतिः अनात्मनोपि निगद्यते। चितिविस्मरणमेव अचितश्चैत्यस्य उत्पत्तिकारणं भवति। अत एव भगवत्स्मरणस्य विशेषः उपपाद्यते। तत्स्मरणं तु सर्वत्रापि भाव्यम्। भगवान् सर्वत्र आस्ते  इति सर्वमतसिद्धं॥

कथमास्ते इति विचारणीयं भवति। न तु कुण्डे बदराणीव इत्याचार्याः।सर्वभूतेषु भगवान् इति भगवद्रूपस्य याथातथ्यज्ञानेन विना घटे उदकमिव इति न भाव्यं। तथा चेत् घटाकाशेन यत्स्थलं परिच्छिद्यते तत्र भगवान् अस्ति वा न वा इति संशयो भवति। अस्ति चेत् घटस्थितेः का गतिः। घटस्य नास्तित्वमेव सिद्धान्ततया  वक्तव्यं भवति। भगवान् घटः उभयमप्यास्ते चेत् फलको देवदत्त इव ईश्वरस्य सर्वगत्वं हीयते। सगुणमूर्तौ भगवतः सर्वत्रावस्थानं न संभवति। निर्गुण-नित्य-निरवयवस्वरूपेण भवितव्यमिति सिद्ध्यति। भगवद्व्यतिरिक्तवस्तूनां असंभव एव श्रुतिभागवतादिषु प्रतिपाद्यते। गम्यदेशैकनिष्ठस्य मध्ये दृष्टाः पदार्थाः न ज्ञायन्ते न विविच्यन्ते अयमिदमित्यादिः न गोचरीक्रियते एवमेव् अखण्डस्वरूपावस्थितस्य चेतनस्य अन्यपदार्थगोचरीकरणं इति यत् सर्वथा असामंजस्यं भवति। चितश्चलनं च स्वशक्त्यैव। चिदेव वासनाः कल्पयन् अहंकारबुद्धिमन इन्द्रियाणि क्रमशः कल्पयति। कल्पनातरङ्गात्मकसागरतरणाय
प्रज्ञानावादन्य उपाय एव नास्ति। स्वशक्तिविजृम्भणमेव लोक इति स्वस्यैव परमात्मत्वं अखण्डपूर्णाद्वैत रूपतः इति शम्॥

65. ShArIrakopanishhat

तत्वं च मधुसंख्याकं शारीरोपनिषच्छ्रुतम्।
बाह्यदृष्ट्या च भेदः स्यात् सूक्ष्मात्ममधुपूरितम्॥ १४५॥
मधुक्षरंश्च  मधुरं नामामृतमितीरितम्।
अनात्मतत्वद्वारा च परतत्वं विचिन्तयेत्॥ १४६॥

मनःस्थानं गळान्तम्। बुद्धेर्वदनम्। अहंकारस्य हृदयम्। चित्तस्य नाभिरिति। अनात्मन एव दृश्यत्वात् दृश्यद्वारैव उपास्तिर्भवति। भ्रूगतमनोमण्डलं नादरूपम्॥

66. Yogashikhopanishhat 

सकलं निष्कळं चैव एकभावेन काशते।
अपापकाशिनी श्रौती वाणी योगशिखात्मिका॥१४७॥
सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता।
स्वस्यैव वैखरी वीणा कुण्डली नृत्तहेतुकी॥ १४८॥
शक्तिविस्तार एवेति स्वज्योतिषि समाप्यते।
यदा शक्तेश्च संकोचः स्तब्धो वृक्ष इव स्थितः॥ १४९॥

वृक्ष इव स्तब्धो दिवि तिष्टत्येक इति श्रुत्या एकेन पुरुषेण विचारितेन सर्वात्मकेन मनस एव जन्म न भवति। न बाह्येनापि हृदये सद्रूपं विद्यते  मन इति श्रुतेः। अतः मनः अवस्तुत्वात् बाध्यमेव भवति। मनसि विलीने सति जगदिति कथैव अस्तमयते। पदार्थाकारमेव मनः। तस्मात् मनः सर्वतोऽपि संग्राह्यम्। अवशिष्टं वस्तु ओंकार इत्येव चिन्तयेत्। देहादयः बुद्बुदा इव। नादानुसंधानरूपवेदगानेन स्वरूपलयो भवति। पराग्भावविस्मृति-हेतुश्च भूत्वा प्रत्यग्ज्योतिर्जयतेतरां।

67. TurIyAtItopanishhat

तुरीयातीतचिन्मात्रं स्वज्योतिररुणाचलम्।
अस्पर्शयोगी सर्वत्र सुखदुःखेष्वकंपितः ॥१५०॥

सर्वदा अनुन्मत्तः असंभाषणपरः स्वरूपध्यानेन निरालंबमवलंबते। सर्वं विस्मृत्य वेदस्मरणेन अमृतस्य धारणो भवति। स्वरूपानुसंधानेन सर्वप्रपञ्चविज्ञानं भवति॥

68. SannyAsopanishhat

सन्न्यासस्याधिकारी यः पूर्णसंस्कारसंयुतः।
चतुस्साधनसंपन्नः स्वरूपध्याननिष्टया॥ १५१॥
तस्यैव चिन्मयी दृष्टिः शोभना परमा मता।
प्राहन्ता शोभिता च स्वातिरिक्तं निरस्य च॥ १५२॥

अप्सु वस्त्रकटिसूत्रादिविसर्जनं इति तत्तद्वृत्तिष्वेव लयः पदार्थानां विवक्षितः।एकमेव वस्तु विद्यते सर्वत्र तत्प्रतिपादकी दृष्टिः चिन्मयी दृष्टिः।ब्रह्मसनकादीनां ब्रह्ममयी वृत्तिः सैषा दृष्टिः सात्विकीति। निमिषार्धं न तिष्टन्ति इति श्रुतेः। मयैव चेतनेन सर्वमवभासत इति यद्ज्ञानं तदेव जयतीति। एरण्डतैलफेनवत् सर्वं त्यज्यते॥स्वबाह्ये न किञ्चिदप्यस्ति। सर्वं स्वान्तर्गतमेवेति सिद्धान्तेन सर्वदेवतार्चनाद्यपि स्वस्मिन्नेव क्रियते इति तस्य भावना। अद्वैतं नावमाश्रित्य मौन अभोजनादिभिः वाक्कायदण्डानि कल्प्यन्ते। १२००० जपं कुर्याद्यतिरित्यनुशासनम्॥

69. ParamahamsaparivrAjakopanishhat

प्रणवार्थस्तुर्यतुर्यः ज्ञानज्योतिर्मयो महान्।
ऋषिस्तपस्वी स श्रेष्टः ब्रह्मप्रणवविद्गुरुः॥ १५३॥
सर्वापह्नुतिपूर्वं च स्वीयं विष्णोः परं पदम्।
व्रजंश्च देहत्यागी यः परिव्राड्डंस ईरितः॥ १५४॥
एक एव चरन् सूक्ष्मः नित्यानित्यविवेकतः।
परिव्राट्परमहंसःसूर्य एकाकी चरति॥ १५५॥

यस्यास्ति अद्वैतमात्मज्ञानं तदेव यज्ञोपवीतम्। तस्य ध्याननिष्टैव शिखा।वेदपुरुषो महानितिभगवत्यवतिष्टते। तस्मिन्नेव भगवानपि वर्तते। स स्वव्यतिरेकेण नान्यद्रष्टा॥

70. akshamAlikopanishhat

अकारादिक्षकारान्तवर्णजातकळेबरः।
अक्षमालिकया जापी सर्वात्माऽयं हि शंकरः॥ १५६॥

देहावयवेषु मातृकाध्यानात् तत्तदवयवध्यानमपोह्य देवीस्मरणात् देव्या ततमिदमिति देवीसार्वात्म्यं भवति। भूतानि दुर्गा भुवनानि दुर्गा इति सर्वं दुर्गामयं जगत्॥

71. avyaktopanishhat

अज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी।
देहात्मानं हविर्ध्यात्वा स्वज्योतिषि समर्पयेत्॥ १५७॥
ध्यानयज्ञो महायागः मानसीनश्च सर्वहुत्।
अव्यक्तोपनिषद्वेद्यः नृसिम्हानुष्टुभो मनुः॥ १५८॥

देहात्मबुद्धिर्ये न परित्यज्य  ते देहतद्धर्माश्च ये न त्यक्तुं शक्यते स होमः सर्वहुद्यागे क्रियते। स्वातिरिक्तविलापनेन स्वावशेषतया यदाहुतिः तस्य यज्ञस्य सर्वहुदिति नाम पुरुषसूक्ते पठ्यते। स्थूलदेहाभिमानिनं वैराजं पुरुषं हविष्ट्वेन कल्पयित्वा देवाःयज्ञमतन्वत  मनसैव यज्ञेनैव विक्रान्तमिदम्।यज्ञपुरुषस्यैकरूपत्वात् तल्लब्धये मिथ्याभिमानिनं पुरुषं हुत्वा तदवयवेभ्यः लोकावयवाः सृष्टाः सृष्टियज्ञ इत्युच्यते॥

Continued on Page 14.

HOMEPAGE

GITAMRTAMAHODADHI TITLE PAGE 

CONTENTS PAGE BRAHMAMRTAM LINK PAGE  (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)         

JNANAMRTAM LINK PAGE (Ch.4)                    YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE