53. Skandopanishhat
चिज्जडानांतु यो द्रष्टा उमा नारी शिवो नरः।
अर्धनारीश्वरं योगं सोऽहंभावेन पूजयेत्॥१२०॥
स्कन्नानन्दघनं पश्यन् सर्वत्र स्कान्ददर्शनम्।
संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते॥ १२१॥
याथार्थ्यभानप्रतिबन्धो हि अन्तःकरणजृम्भनम्। आत्मैक्य-ज्ञानेनैव अन्तःकरणं समूलं नाशयित्वा स्वमात्रभानं भवति।
देहात्मतारूपमलत्यागः ज्ञानगङ्गामज्जनम्। सर्वदेवात्मैक्यमेव सशक्तिमत्॥
54. TripaadvibhUti-mahAnArAyaNopanishhat
त्रय्यान्तैः पद्यते तत्वं त्रिपान्नारायणंत्विति।
तत्संकोच-विकासौ च महामायाप्रसादतः॥ १२२॥
पराक्प्रत्यग्दृष्टिजात-विपन्नभुवनावळिः।
सुदर्शने भक्तियोगः परिपूर्णस्वरूपता॥ १२३॥
ब्रह्मैकं कालत्रयाबाधितं आदिमध्यान्तशून्यं गुणातीतं मायातीतं तुरीयं निराकारं च। वैकुण्ठं स्वाविद्यावृत्तिभिः कुण्ठनं न
भवतीति॥
55 advayatArakopanishhat
अमनस्कं अमूर्तं यत् श्रीमदद्वयतारके।
योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः॥ १२४॥
गुर्वीमूर्तिर्गुणग्रासो गुरुरेव परा गतिः।
बाह्यान्तर्लक्ष्यदृष्टौ च निर्मनस्कं समभ्यसेत्॥ १२५॥
सर्वत्र अन्तःपदार्थविवेचने मनोयुक्ताभ्यास इष्यते। चिदिन्द्रियार्थं तन्मूर्तिमत्तारकम्।तारकानुसंधानेन सदूर्ध्वस्थ-
सत्वदर्शनात् मनोयुक्तेन अन्तरीक्षणेन सच्चिदानन्दस्वरूपं ब्रह्मैव॥
56. Ramarahasyopanishhat
श्रीराममन्त्रहृदयं ज्ञात्वा मौनी जपेत्सुधीः।
मातृका मालया नित्यं अनन्यैकत्वभावनात्॥ १२६॥
रां निर्गुणं परं ज्योतिः रेफस्याकारयो गतः।
व्यवहार्यं भवेच्चापि मयाज्ञानश्रिया युतः॥ १२७॥
रामस्तच्च नमःस्त्वञ्च अस्यर्थे च विनायकः।
रां रामाय इति प्रणवार्थे नियोजयेत्॥ १२८॥
रामषडक्षरीति उत्तमोत्तमो मन्त्रराजः। रामस्याराधनं नाम आसमन्तात् परितः दशदिक्ष्वपि तत्सान्निध्यभावनम्।
भुक्तिमुक्तिप्रदञ्चैतत्। राममन्त्रा विविधाः यज्जपे सर्वेप्यधिकारिणः सदा रामोऽहमिति भावयेत्॥
57. RamapUrvatApinyupanishhat
श्रीरामपूर्वतापिन्यां रमन्ते नित्ययोगिनः।
मुद्रां ज्ञानमयीं याम्ये वामे तेजः प्रकाशिनीम्॥ १२९॥
धृत्वा व्याख्याननिरतः चिन्मयः परमेश्वरः।
रामो मायामयः कामरूपी साक्षी निरञ्जनः॥ १३०॥
राति आनन्दयति राजते राक्षसा येन मरणं यान्ति दृष्टिचित्तापहारी अभितो रमयति। रेफारूढा मूर्तयः शक्तयः। रावाद्रावणः रामपत्नीं वनस्थां
यः स्वनिवृत्त्यर्थं आददे इति श्रुतेः॥
(Note by V. Krishnamurthy: At this point the author gives, in a footnote, a reference to a later set of pages, which follow after the completion of the entire GitAmRRitamahodadhi. These pages contain his original composition entitled 'rAmAyaNAdvayaM'. This work is a 243-verse piece which can be seen here
58. Ramottara-taapinyupanishhat
श्रीरामोत्तरतापिन्यां प्रणवादि षडक्षरम्।
योहवा इति मन्त्रैश्च स्तुतिः स्वानुभवप्रदः॥ १३१॥
राजमानं महो रामः स्वानुभूत्यैकचिन्मयः।
तद्वीक्षितानां वृत्तीनां तस्मिन्नेव लयः स्मृतः॥ १३२॥
सप्तचत्वारिंशन्मन्त्राः उपनिषत्प्रोक्ताः नित्यं पठितव्याः। अस्मिन्नेव काशीक्षेत्रे प्रत्यग्ज्योतिः प्रकाशते अविमुक्ते सदा सन्निहितः रामः॥
59. Vaasudevopanishhat
अहञ्च सर्वभूतेषु यथा तैलघृतादयः।
परमानन्दसन्दोहो वासुदेवोहमोमिति॥१३३॥
गोपीचन्दन-पापघ्न-विष्णु-देह-समुद्भव। चक्राङ्कितनमस्तुभ्यं धारणान्मुक्तिदो भव॥ इति नमस्कृत्वा उद्धृत्य इमं मे गङ्गे इति जलमादाय
विष्णोर्नुकमिति मर्दयित्वा अतो देवा अवन्तु नः इत्येतन्मन्त्रैः विष्णुगायत्र्या केशवादिभिर्वा ऊर्ध्वपुण्ड्रधारणं कुर्यात्। सर्वभूतेषु अनुस्यूतो
वसति वासुदेवः।सत्वं विशुद्धं वसुदेवसंज्ञितम् इति शुकोक्तेश्च॥
60. Mudgalopanishhat
पुरुषस्सर्वगोनन्तः कल्पितं पूरयत्यथोम्।
विराट्देहेन हविषा देवा यज्ञमतन्वत॥ १३४॥
देहाभिमानी पुरुषः हेय इत्येव हीयते।
तद्भावान्नहि वस्तुत्वं पशुतुल्यो द्विपादपि॥ १३५॥
देहातिगो देहसाक्षी साक्षात्पशुपतिः स्वयम्।
विराट्च्चरीरावयवाः बहुसृष्टेश्च कारणम्॥ १३६॥
महान्नं पुरुषं वेद अहमेवेति मुद्गले।
यत्पुरुषेण मन्त्रेण सृष्टियज्ञ इहेरितः॥ १३७॥
पुरुषत्वलाभ एव उत्तमः इति रजस्तमो गुणानुग्रसति। दिव्यः अमूर्तश्च व्यापकः। सर्वञ्च कल्पितं पूरयति। स्थूलशरीराभिमानी च विराट्।
तद्देहेज्यया तदवयवा एव पृथक्पृथक्तया सृष्टौ कल्पिताः।आत्मैकत्वदर्शिन एव पुंसः।कस्यचिद्धीरस्यैव पुरुषत्वम्। एकभावस्यैव
सिद्धान्तत्वेन सात्विकज्ञानतया पठितत्वात् सर्वेषामपि ज्ञानिनां एकभावस्यैव सिद्धत्वात् कश्चिन्मां वेत्तीति एकस्यैव अनन्तानां मध्ये ज्ञान सम्भवः इति न मन्तव्यः। महानेव पुरुषः इति यस्यैव भूमज्ञानं सहि धीरो विद्वानिति। उत्तमाः पुरुषाः सन्त एव कल्पितरजोदोषेण स्त्रीप्राया भवाम। निर्दोषं ब्रह्म इतीरितम्॥
CONTENTS PAGE BRAHMAMRTAM LINK PAGE (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)
JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE