47. sItopanishhat
सीता त्रिवर्णा प्रकृतिः साक्षान्मायामयी भवेत्।
सकारस्सत्यममृतं माया ईकार उच्यते॥ ११०॥
तकारस्तारलक्ष्म्यंच वैराजः प्रस्तरः स्मृतः।
आविर्भावतिरोभावौ शक्तेः स्मरणमात्रतः॥ १११॥
स्वातिरिक्तं या एति प्रतिपादयति सीता। महामायाच प्रथमतः शब्दब्रह्ममयी व्यक्ता भवति।
स्वाध्यायकाले नराणां प्रसन्ना च उद्भावनकरी। न रमन्ते स्वातिरिक्ते ते नराः स्वात्मैक्यज्ञानिनः
तेषां हृदये निरावृत-निरवधिक-सुखरूपेण उद्भवतीति उद्भावनकरी। भूतभावोद्भवकरो विसर्ग इति गीतम्।
द्वितीया भूतले हलाग्रे समुत्पन्ना। तृतीया स्वज्योतिस्सान्निध्यवशात् जन्मस्थितिभङ्गहेतुर्भवति गौरीति॥
48. yogacUDAmaNyupanishhat
योगचूडामणिज्योतिः यन्मात्रासुच शक्तयः।
आधाराद्ब्रह्मरन्ध्रान्तप्रभया पूरिता इति॥ ११२॥
ओंकारजाता शक्तिश्च स्वयंज्योतिः स्वरूपिणी।
गायत्री कुण्डलीप्राणशक्तिबोध इहेरितः॥ ११३॥
सिद्धासनं पद्मासनं वज्रासनं वा संस्थाप्य चक्रषट्कषोडशाधारं त्रिलक्ष्यं व्योमपञ्चकं ज्ञेयानि। आधाराकुञ्चनेन मूलबंधनेन जालंधरे चिबुकं वक्षसि संस्थाप्य नाभिप्रदेशे पश्चिमतानतश्च। अपानमूर्ध्वमाकृष्य प्राणमुन्नमयति। मुखं संयम्य नाडीभ्यां वायुमाकृष्य प्राणञ्च कुम्भयेत् गच्चता तिष्टता वाऽपि। सुषुम्ना शून्यपदवीब्रह्मरंध्रं महापथः श्मशानं शाम्भवी मध्यमार्गश्च पर्यायवाचकाः॥
49. nirvANopanishhat
निष्केवलञ्च यद्ज्ञानं निर्वाणं तन्निरञ्जनम्।
सर्वभूतहृदिस्थोऽहं हंसाचारानुभूतितः॥ ११४॥
निस्त्रैगुण्यस्वरूपानुसंधानं भ्रान्तिहृत्स्वयम्।
अहंकारममत्वादि मायाया दहनं शिवम्॥ ११५॥
सर्वभूतान्तवर्ती हंसः इति प्रतिपाद्यते। देहस्य अशुचित्वं आत्मात्मीयाभिमानतः। दृश्यतिलात् तैलं ग्राह्यम्।
दृश्यप्रकाशकदीपोऽहम्। दृश्यानाङ्खपशूनां पालकश्च॥
50. maNDalabrAhmaNopanishhat
मण्डलब्राह्मणेचोक्तं त्रिलक्ष्यं व्योमपञ्चकम्।
नवचक्रं षडाधारं योगी वेत्ति मनोरसम्॥ ११६॥
निमीलित-दर्शनं अमादृष्टिः। अर्धोन्मीलितं प्रतिपत्। सर्वोन्मीलितं पूर्णिमा भवति। निर्गुणपूजाप्रकटनम्।
आकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति। देहस्य पञ्चदोषाः काम-क्रोध-निःश्वास-भय-निद्राः
निस्सङ्कल्प-क्षमा-लघ्वाहार-अप्रमादता- तत्वसेवनैः निरस्यन्ते। सुषुम्नादर्शनम्। तर्जन्यग्रोन्मीलित-कर्णरंध्रद्वये
जातफूत्कारशब्दस्थिते मनसि चक्षुर्मध्यनीलज्योतिर्दर्शनम्। एवं हृदयेऽपि। सहस्रारे जलज्योतिरन्तर्लक्ष्यं।
स्वयमेवान्तर्लक्ष्यो भूत्वा परमाकाशाखण्डमण्डलो भवति॥
51. daxiNAmUrtyupanishhat
बोधपात्रे भक्तिवर्तिं तैलवैराग्यसंयुते।
निक्षिप्य ज्ञप्तिदीपेन दक्षिणामूर्तिदर्शनम्॥ ११७॥
बुद्ध्यारूढजनैरेव क्रियन्ते व्यवहाराः लोके। समष्टिबुद्धिमयत्वात् दक्षिणामूर्तेः स्वज्ञस्य सर्वत्रापि दक्षिणामूर्तिरूपमेव
दृश्यते। अतः मेधादक्षिणामूर्तिमन्त्रं इत्थं प्रवर्तितम्। ओन्नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां यच्च स्वाहेति। विश्वाक्षरमन्त्रं। बुद्धितादात्म्यं प्राप्तभगवतैव क्रियमाणत्वात् सर्वत्र भगवद्दर्शनेन पूर्णैकान्तभक्तिर्-
जायते येनैव तत्सार्वात्म्यं प्राप्यते॥
52. sharabhopanishhat
शारभज्योतिरङ्गेषु शराणां जीववाचिनाम् ।
महाग्रासाय महते देवाय ज्योतिषे नमः॥११८॥
एष देवो मृडयति नित्यानन्दकरः शिवः।
शिव ईशो नित्यसाक्षी साक्ष्यदृश्यविवर्जितः॥ ११९॥
आत्मानमधिकृत्य विलसज्ञ्ज्ञानं तत्वमाध्यात्मिकं भवति। शारभं अद्वैततत्वं आम्नायते।
मायाममतादिभिः ये मोहिताः तेषां याथातथ्यं न प्रकाशते। नीलकण्टो विषग्रासः न दोषं कुत्रचिदारोपयति।
ब्रह्मणः पूर्णत्वात् निर्दुष्टत्वात् गुणदोषदृशिर्दोषः इति शुकोक्तेश्च दोषो यद्यापि तस्य स्यात् इत्येवमुपेक्ष्यते।
न कश्चिन्नापराध्यति इति सीतोक्तिरनुसंधेया॥
CONTENTS PAGE BRAHMAMRTAM LINK PAGE (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)
JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE