Continued from page 9

 42. Brahmavidyopanishhat

स्वप्रकाश-चिदानन्दं हंसं यो वेद हृद्गतम्।
ज्ञानवृत्तिं दीपयित्वा कस्थगङ्गाभिषेकतः॥ १०१॥
सत्वस्वरूप-सन्मात्र-सिद्ध-सर्वात्मकोऽस्म्यहम्।
इत्येवं ब्रह्मविद्याख्योपनिषत्सारमुच्यते॥ १०२॥

हंसलक्षणयुक्तश्चिद्रविः एकाकी चरतीव। सर्वगस्य न चलनम्। बुद्ध्या यः जानाति बुद्ध्यन्तरपि तत्सत्वं जानाति।
वेद्यस्य जडत्वात् ब्रह्म न वेद्यं भवितुमर्हति। तस्यैव वेदन-रूपत्वात् वेद्य-वेदितृ-वेदन-वर्जितमेव चिद्घनं
निर्विकल्पं भवति॥

43. Yogatattvopanishhat

योगतत्त्वं स्वस्वरूप-विज्ञाने पर्यवस्यति।
अकारे रेचितं पद्मं उकारेणैव भिद्यते॥१०३॥
मकारे लभते नादं अर्धमात्रा तु निश्चला।
आत्मैक्यज्ञानयोगेन मायाजालनिकृन्तनम्॥१०४॥

सूर्यभेदनं उज्जायी सीत्कारी शीतली। भस्त्रिका। भ्रामरी। इत्याद्यष्टकुम्भकाः। महामुद्रा।
महाबंधः। महावेधः। खेचरीत्यादयः। मूलबंधं जालंधरः उढ्याणमित्यादयः।
सर्वे अभ्यासेनैव साध्याः। गंधघृततैलकाञ्चनादिवत् सूक्ष्मं वस्तु यददृश्यं तदेव ग्राह्यम्॥

44. Atmaprabodhopanishhat

आत्मप्रबोधे स्वज्योतिः सत्तामात्रम् हि केवलम्।
मायातीतस्वरूपत्वात् तमो नास्तीह किञ्चन॥ १०५॥

प्रज्ञेनात्मना दृश्यप्रपञ्चादुत्क्रम्य स्वात्मलोके स्वज्योतिः परिवेष्टिते सर्वान् कामानप्त्वा अमृतः
स भवति। यत्र ज्योतिरजस्रं यल्लोके अभ्यर्हितं। इति श्रुतिं मनसि प्रतिष्टाप्य स्वात्मरूपतया अञ्चतीत्याणीस्थः॥

45. nArada-parivrAjakopanishhat

नारदाय ब्रह्मणोक्तं परिव्राट् धर्मसागरम्।
एको हि मुख्यसंन्यासः अतत्त्याग इतीरितः॥१०६॥
स्वरूपाननुसंधानं बहुदोषकरं त्विति।
श्वेताश्वतर-संक्षेपः ब्रह्मविद्यानिरूपणात्॥१०७॥

अखण्डभगवद्रूपात् नान्यदरमप्यस्तीति ज्ञानं यो ददाति स हि नारदः सामगायन्नास्ते। वक्तव्यं किमु विद्यतेति
भाष्यकाराः। एकस्यैवाद्वयस्य सर्वत्र सिद्धत्वात्। विद्वान् श्वेताश्वतरो हि ब्रह्मैव। विन्न्यासी महात्यागी महामौनी वस्तुतः।
महाकर्तापि न किञ्चित्करोति रामकृष्णजनकादिवत्॥

46. TrishikhibrAhmaNopanishhat

त्रिशिखिब्राह्मणे प्रत्यक् मूर्ध्नि स्थाने परे पदे।
अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते॥ १०८॥
वेदान्तश्रुतियोगाच्च ज्ञायते वस्तु निर्गुणम्।
मननाद्ज्ञानवृद्धिः स्यात् निदिध्यासनकारणम्॥ १०९॥

श्रुतीति श्रवणयोगो विवक्षितः। श्रवणं नाम श्रुतेर्व्यापारः। मननं मनसः। निदिध्यासनं बुद्धेः।
सोऽयं देवदत्तः इत्यादि स्थलेषु तत्कालैतत्कलयोः परित्यागेन कारणलिङ्गदेहयोस्त्यागेन चैतन्यैक्यं भासते। नैरन्तर्यानुसंधानेन बुद्ध्यैव अपसरणीयाः सर्वे संशयाः॥

CONTINUED ON PAGE 11

HOMEPAGE

GITAMRTAMAHODADHI TITLE PAGE 

CONTENTS PAGE BRAHMAMRTAM LINK PAGE  (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)         

JNANAMRTAM LINK PAGE (Ch.4)                    YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE