33. Kshurikopanishhat
योगनिर्मलधारेण क्षुरिकानलवर्चसा। देहात्मतपाशछेदी संसारं तरते सुखम्॥८४॥
वरुणसूक्तमन्त्रोक्त उत्तममध्यमादि पाशाः देहबुद्धिपराः। स्वतिरिक्तपाशछेद एव भार्गवी वारुणि विद्येति उच्यते। मन्त्रावृत्यात्मक तपसा
असङ्गशस्त्रादि तीक्ष्णं भवति। स्वस्वरूपवृध्या भावितया आवास्यमिदम्॥
34. Mantrikopanishhat
यस्मिन् सर्वमिदं प्रोतं भावा यत्र लयं गताः। मन्त्रिकोपनिषद्वेद्ये लीनाश्चाव्यक्तशालिनः॥८५ ||
नदीनां नामरूपाणि समुद्र इव सर्वेषामपि लयस्थानं गीतामृतोदध्यात्मक भगवानेव। अण्डानां पूर्वावस्था अव्यक्तमेव॥
35 SarvasAropanishhat
बन्धमोक्षादिमायान्तनिरुक्तिस्सर्वसारके। नाहञ्च नामरूपादि देहादीनां विलक्षणः॥८६॥
प्राणादि चतुर्दश वायुभेदाः अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयकोश इति। कोशचतुष्टयसंयुक्तं स्वकारणाज्ञाने वटकणिकायामिव
वृक्षः यदा वर्तते तदा आनन्दमयकोश इति। विद्या अविद्या सत्यं ज्ञानं इत्यादि वेदान्तपदाः व्याख्यायन्ते॥
36 NirAlambopanishhat
जीवब्रह्मेश्वरादीनां निरालम्बे च व्यक्तता। योगी यतिश्च सन्न्यासी अवधूतो महानिति॥८७
निर्विकल्पसमाध्या च एकवस्तुनि तिष्टति। सत्संसर्गः स्वर्ग इति यत्र दग्धाश्च कल्पनाः॥८८॥
सर्वाः तप्यन्ते ज्ञानतपसा यस्य ज्ञानमयं तपः इत्युक्तत्वात् कायक्लेशादिभिः देहात्मभावना नश्यत्येव।
वस्तु सत्वमसत्वञ्च भाव एव वर्तते॥
37. Shukarahasyopanishhat
महावाक्यानि जप्यानि नित्यानन्दगुरोर्मुखात्। स्वरूपसूर्येभ्युदिते शुकवद्विहरिष्यसे॥८९॥
अङ्गन्यासकरन्यासादिभिः जपप्रकाराः उक्ताः।गीतामृतपयोराशौ प्लवन्निव संचरति मुक्तः॥
38. VajrasUcikopanishhat
जीवो देहश्च जातिञ्च ज्ञानं कर्म च धार्मिकः। न ब्राह्मणं लक्षयन्ति इत्येवं वज्रसूचिका॥९०॥
स्वात्मापरोक्षविज्ञानी भूमब्रह्मानुभूस्सदा। मुख्यब्राह्मण एवायं अहंकारविवर्जितः॥९१॥
सच्चिदानन्दघनात्मकनित्यनिष्प्रतियोगिकब्रह्मप्रत्यगभिन्नतया यस्साक्षात्करोति स हि
ब्रह्म ब्राह्मण आत्मना। अन्तरिक्षं विश्वरूप आविवेश।
39. TejobindUpanishhat
तेजोबिन्दुशिरो वेद्यं अखण्डैकरसः स्वयम्। चिन्मात्रकेवलाकारः ब्रह्मैवाहं च सर्वतः॥९२॥
स्वेतरच्चात्यन्तशून्यं समनञ्च सवासनम्। यस्य देहादिभानञ्च स्वस्मिन्नेव लयं गतम्॥९३॥
स्वस्वरूपमहानन्दं तच्च सर्वत्र भात्यहो। स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः॥९४॥
श्रोत्रनासाजिह्वादि स्वातिरिक्तं नास्तीति स्वमात्रमेव सर्वतः पश्यन् स्वभूमज्योतिर्व्याप्तो भवति। सदाभ्यास एतस्या
उपनिषदः ब्रह्मनिकटं नयत्येव।
40. NAdabindUpanishhat
देहादीनामवस्तुत्वात् प्रारब्धादि न हि क्वचित्। उन्मनीकारकं सद्यो ब्रह्मप्रणवनादकम्॥९५॥
न ददाति पराग्भावं नदोनादबिन्दुशिरः। अज्ञानिनाञ्च बोधार्थं प्रारब्धं वदति श्रुतिः॥९६॥
यावन् मनः नादः श्रूयते। अवस्तुनि वस्तुत्वभानमेव मनः। वृत्तित्यागेन यदा निरोधः मनसः मनोनाश इति। ब्रह्मज्ञानेनैव मनोनाशः
निस्सङ्कल्पात्मकः उन्मनीभावः। तत्तादात्म्यं मनोन्मन्यनुभवः॥
41. DhyAnabindUpanishhat
ओंकारं देहमध्यस्थं ध्यानबिन्दुशिरोगतम्। अमूर्तो वर्तते नादो निश्शब्दं परमं पदम्॥९७॥
अकारोकारमकाराः बिन्दुनादकलात्मकाः। कलातीतं तत्परं च अष्टाङ्गानि तदोमिति॥९८॥
विश्वादिश्च विराडादिः ओत्रादिश्च पदा इति। देहावस्थाशक्तिगुणकालैः स्थानत्रयं विदुः॥९९॥
पञ्चदेवाब्रह्मविष्णुरुद्रेश्वरसदाशिवाः। एतैश्च लक्ष्यं ब्रह्मेति द्रष्टव्यस्त्वेक एव च॥१००॥
देहमध्यस्थमिति सर्वदृश्यहृदिस्थितस्य अणोरणीयस्त्वं महतोऽपिमहीयस्त्वं उभयत्वं सिद्धं अतिसूक्ष्मत्वेन
ब्रह्माण्डेषु व्यापकत्वात्। एकमेवाद्वयमिति एकं वस्त्वेव पूर्णतया स्थितं। एतेन इतरस्याप्यभाव एव सिद्ध्यति॥
CONTENTS PAGE BRAHMAMRTAM LINK PAGE (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)
JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE