27. bRRihajjAbAlopanishhat
विभूतिर्भसितं भस्म क्षारं रक्षेति पञ्चधा। ब्रह्मज्ञानाग्निजं भस्म स्वमात्रज्ञानतो यतः॥७१॥
निमृज्य स्वातिरिक्तं यत् नास्त्यरं चेति धारणम्। विभ्रमास्पर्शयोगी च रुद्राक्षज्ञानवीर्यतः॥७२॥
बृहज्जाबालशक्त्या च ह्यमृतप्लावनं सदा। शिवाग्निना तनुं दग्ध्वा सोमेनाप्लावनं यथा॥७३
अग्निरिति भस्म वायु। जलमिति भस्म। स्थलमिति भस्म। व्योमेति भस्म। सर्वँहवा इदं भस्म। इत्यात्मैक्यज्ञननिश्चयधारणं येन क्रियते स एव भस्मधारी।
ज्ञाननेत्रेण सर्वविलापनकारी रुद्राक्षधारी। दृश्यदाहपूर्वकं अदृश्यद्रष्टा। स हि भुवो विशि। यो मां पश्यति सर्वत्र सर्वञ्च मयि पश्यतीति गीतत्वात्।
शिवाकारहनूमता सूक्ष्मशरीरभूतलङ्कादहनमभूत् किल। सवासनं मनः नास्तीति भावनादार्ढ्यमेव स्वेतरविलापहेतुर्भवति॥
28. nRRisimhapUrvatApinI Upanishhat
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्युमृत्युम् नमाम्यहम्॥७४॥
इत्यानुष्टुभमन्त्रस्य रहस्यार्थः स्फुटीकृतः। ओं सावित्री यजुर्लक्ष्मीः गायत्रीस्तुतिमन्त्रतः॥७५॥
नित्याध्ययनमेतेषां नृसिंहपूर्वतापिनी।तुर्यतुर्यो नृसिंहश्च स्वेतरभ्रान्तिहिंसकः॥७६॥
उग्रादीनां निरुक्तिः।ओमित्येतदक्षरमिदं .... विज्ञेयः। अथ सावित्रीगायत्र्या ......वेदेति। ओं भूर्ल ...... स्तुवध्वम्।आधारे त्रिकोणगतमूलाग्नौ
नृसिंहाग्निरूपं प्रणवात्मकं संदध्यात्। सर्वात्मा सर्वगः साक्षी तत्तच्चरीरेषु तत्तदात्मतया प्रविश्य तत्तत् कृत्यानि करोति च। पालयति च सृष्टम्।
आत्मा केवलो निर्गुणः इति दृढीकृत्य मनो वृत्तीः शब्दादि विषयांश्च प्रणवशृङ्गैर्योजयति। अकारादिप्रणवशृङ्गप्रोतानामपि पादातिरिक्ततां हत्वा
आत्मानं अशृङ्गमेव भावयेत्।तुर्यपादबुद्धिरपि हातव्या।तदपह्नववृत्तिमपि स्वाविद्याकार्यमिति तामपि स्वावशेषतया ग्रसेत्। संस्तभ्य सिंहं इति
शृङ्गेषु अशृङ्गमिति च मन्त्रौ ध्येयौ॥
29. nRRisiMhottaratApinyupanishhat
नृसिंहोत्तरतापिन्यां ओंकारावयवाः श्रुताः।संस्तभ्य देवमात्मानं गुणत्रयविवर्जितम्॥७७॥
ब्रह्मादिकानकाराद्यैः संयोज्यात्मनि संहरेत्। तेषां तु कारणाविद्यां बाधित्वा वस्तुतोऽसतीम्॥७८॥
कृत्वा चिद्भक्षितां वीरः अशृङ्गे शृङ्गयोगतः। तुर्यतुर्यं स्वमात्रं च उपद्रष्टारमाव्रजेत्॥७९॥
विश्वविश्वादि शृङ्गेषु अविकल्पाविकल्पं तुर्यतुर्यं अशृङ्गं संबध्य ततः चतुष्पदं नृसिंहानुष्टुभं अकारादि शृङ्गेषु
धिया संयोज्य कल्पितमपि हुनेत्। अकारोकाराभ्यां मकारमाबध्य असङ्गोदासीनस्वभावाः त्रयो देवाः जाग्रदाद्यवस्थामवगच्छन्ति। यथा तुर्यबुद्ध्या
त्रयमवलोक्यते तथा मकारधिया अकारोकारौ अवलोकयेत्। अजामेकामिति प्रतिपादितमायाया अत्यन्ततिरोधानमेव भवति निस्तरङ्गे गीतामृतमहोदधौ।
तुर्यजागराद्याधाराः ओता अनुज्ञाता अनुज्ञैकरसो अविकल्पश्च। शृङ्गं शृङ्गार्धमाकृष्य शृङ्गेण अनेन योजनं इत्यत्र अयं निष्कर्षः।
शृङ्गं अकारं शृङ्गार्धं मकारञ्च आकृष्य अकारमकारघटकेन उकारेण शृङ्गेण तादात्म्यं नयेत्। पुनरेनमुकारं मकारे च परेऽशृङ्गे
परे ब्रह्मणि अकारेणापि तादात्म्यं नयेत्।
30. KAlAgnirudropanishhat
कालाग्निरुद्रः स्वाज्ञानं तत्कार्यञ्च चराचरम्। भस्मीकरोति निःशेषं त्रिपुण्ड्रस्य विधानतः॥८०॥
भगवद्भावनादार्ड्यं यस्य जातं तत्करस्पर्शनभस्मनिक्षेपणादयोऽपि पापनिर्हरणसमर्था भवन्ति॥
31. MaitreyI upanishhat
आनन्दामृतमात्मानं ज्ञात्वा पूर्णस्वरूपतः। देहो देवालय इति बाह्यमान्तरपूजनम्॥८१॥
स्वरूपावस्थितो धीरः मैत्रेयी तत्वचिन्तया। दर्शनप्रथमाभासं आत्मानं केवलं भजेत्॥८२
ज्योतिरसानन्दामृत आत्मा एक एव पूर्णस्वरूपेण वर्तते। उपाधीनां बहिरन्तश्च स एष अन्वेति। अतिदूरगतवस्तु प्रथमतः
निरवयवं दृश्यते। यथा यथा समीपं आगच्छति तद्वस्तुनः अवयवाः दर्शनयोग्या भवन्ति। प्रथमतो दृष्टिपथं गते वस्तुनि यादृशः
स एव आत्मनो रूपम्। द्रष्टृदर्शनदृश्यानित्यकत्वा वासनया सह सदसद्विलक्षणतया यदाभासः दृश्यते तन्मात्रतया स्थितः भजेत।
32. SubAlopanishhat
तेजस्कायमरूपञ्च अशरीरामृतं शिवम्। सर्वं निर्बीजमप्येति सौबलात्मा भवत्यहो॥८३॥
तेजोमयशरीरमिति तेजोघनमेव उपचर्यते। निर्बीजत्वान्नपुनरुद्भवः। यद्गत्वा न निवर्तन्ते इति गीतत्वात्।उद्वयं तमस इति श्रुतेः॥
CONTENTS PAGE BRAHMAMRTAM LINK PAGE (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)
JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE