19. MahAnArAyaNopanishhat
दृश्यञ्च माया तत्कार्यं मन्त्रकोटिभिरुच्यते।याज्ञिकीरप्युपनिषदः विदुषो यज्ञबोधकाः॥५६॥
युञ्जन्नोमित्यथात्मानं मेधावी धर्मचार्यहो। न्यास एव परो धर्मः यत्र सर्वञ्च दीयते॥५७॥
स्वमात्रबोधादेव स्वातिरिक्तमपह्नवं याति। मायातत्कार्यमखिलं स्वातिरिक्तं। तत् नास्त्येव। स्वातिरिक्तहोम एव विदुषो यज्ञः। अनन्तमात्मतत्ववैभवम्। गायत्री मन्त्राः।
मृत्तिकास्नानम्। इन्द्रवैभवम्। प्रोक्षणम्। अघमर्षणम्। दुर्गासूक्तम्। व्याहृतिहोमः। विश्वरूपप्रणवः। अधिगतस्य अविस्मृतिः। तप आवाश्यकता। पुण्येन
कर्मणा मनः शुद्धिः। समुद्रादि बीजम्। अजाहंसः। घृतम्। मधु। अग्न्युपास्ति वेदरहस्यम्। दहरविद्या। उत्तरनारायणम्। आदित्योपस्थानम्।
त्वरितफलजप्यम्। होमसाधनपात्रविशेषः। राक्षोघ्नमन्त्रपञ्चकम्। वृत्तिसमुद्रम्। प्राशनमन्त्राः। आवाहनम्। प्राणायामम्। सन्ध्योपस्थानम्। भोजनजप्याः।
मेधासूक्तम्। मृत्युसूक्तम्। वैश्वदेवहोमबलिमन्त्राः। कामोकार्षीज्जप्याः। तिलहोमम्। विरजामन्त्राः। श्राद्धभोजने। सत्यतप आदि साधनानि। न्यासे सति नितरामासनं इति
नैरन्तर्येण स्थित्यात्मके सर्वश्रेष्टे मानसीने मनोमये सर्वं प्रतिष्ठितं इति अनेकमन्त्राः प्रतिपादिताः॥
20. Paramahamsopanishhat
नित्यबोधस्वरूपेण आकाशाम्बरधामनि। तिष्ठन् परमहंसश्च ज्ञानदण्डम् धरत्यथो॥५८॥
नित्यानित्यविवेकेन एकभावगतस्त्वयम्। एकभावः पूर्णरूपः स्वभावोऽखंड ईरितः॥५९॥
परमहंसः सदा स्वधामनि तिष्ठति। व्यक्ताव्यक्तस्वरूपाल्लोकात् यः परः सोऽसौ अहं ओंकारार्थतुर्यतुर्योऽस्मीति भावनामयी अजपाध्याननिष्ठः॥
21. Brahmopanishhat
ज्ञाननिष्ठास्तच्छिखिनः ज्ञानयज्ञोपवीतिनः। जाग्रत्स्वप्ने रश्मितंतून् सृजन् गृह्णन्नपि स्वतः॥६०॥
क्षीरे सर्पिरिव व्याप्य उद्धृतञ्च यथा पुनः।क्षीरे न सज्जते क्वापि विद्या ब्रह्मशिरो गता॥६१॥
यथोर्णनाभिः सृजते इति श्रुत्या अक्षराद्विश्वोत्पत्तिः तद्रीत्या। तथापि जगति न सज्जते परमात्मा॥
22. AmRRitanAdopanishhat
शब्दादि विषयाः पञ्च मनश्चैवात्मरश्मयः। अंधवत्पश्य रूपाणि ह्यरूपामृतनादके॥६२॥
ओमित्यनेन मंत्रेण सदायोगं समभ्यसेत्। देहस्थो धर्मचारी च यावद्रथपथि स्थितः॥६३॥
आधारस्थज्ञानानन्दघनात् ज्ञानरश्मयः प्रतिवृत्ति उद्यन्ति अस्तंयन्ति च।लोकदर्शनं अंधस्य न भवति। तथा लोकांधाः ज्ञानचक्षुषः ज्ञानमेव पश्यन्ति
सर्वत्र। या निशा सर्वभूतानां॥। दोषयुक्तचक्षुषः दोषमेव पश्यन्ति सर्वत्र। कामालदोषयुक्ताश्च तथैव पश्यन्ति। स्वज्ञाः स्वमेव पश्यन्ति।
शरीररथमारूढः कर्मभूम्यां कर्म कुर्यात्। शरीररथमुत्सृज्य यदा गच्चति आतिवाहिकशरीरेण यदागन्तुमिच्चति तदा शरीरचेष्टात्मधर्मा अपि एतं परित्यजन्ति॥
23. Atharvashira Upanishhat
अथर्वशिर ओम्कारात् अरुद्रं रेचयेदिह। व्याप्यनन्तस्तारसूक्ष्मः ईशानो रुद्ररूपतः॥६४
इत्थं देवस्तुतिरिति ओं यो वै रुद्रस्स भगवान् यच्च सर्वं भूर्भुवस्स्वःतस्मै वै नमो नमः शीर्षं जनदोम् विश्वरूपोसि॥६५॥
द्वात्रिंशन्मन्त्राः मूलप्रोक्ताः रुद्रस्तुतयः। ओंकारपर्यायवाचकाः एते। प्रणवः। सर्वव्यापी। अनन्तः। तारम्। सूक्ष्मम्। शुक्लम्। वैद्युतम्।
पर्ं ब्रह्म। एकः। रुद्रः। ईशानः। भगवान्। महेश्वरः। सर्वत्र आविवेश रुद्रः इमा विश्वा भुवनानि चक्लुपे॥
24. Atharvashikhopanishhat
यदथर्वशिखाध्यानं प्लुतप्रणवयोगतः। तुर्यतुर्योऽहमेवेति सर्वभूतनिवासतः॥६६
ऊर्ध्वमुन्नमयत्येव विद्युद्वत् द्योततेत्विह। सन्तारयति दुःखेभ्यः सर्ववाच्यं यदोमिति।६७
ओंकारश्चतुरक्षरः चतुष्पादः चतुः शिरः चतुर्थमात्रः स्थूलमेतत् ह्रस्वदीर्घप्लुत इति। ओं ओं ओं इति त्रिरुक्त्वा चतुर्थः शान्त आत्मज्योतिः सकृदावर्तते।
ओंकारार्थतया यदग्रे भातं तदेव तुर्यं स्वमात्रम्॥
25. maitrAyaNyupanishhat
तपस्सत्वमनः प्राप्यं अमनीभावरूपकम्। स्वयोनौ स्वेतरच्चान्तिः इति मैत्रायणी शिरः॥६८
स्वयोनावुपशान्तस्य मनसः सत्यगामिनः।यच्चित्तस्तन्मयो भवतीति श्रुतेःचित्तशोधनं कार्यम्। क्षीणतमस्कप्रकृतिस्वरूपमेव रजसो रूपम्।
यथा निरिन्धनो वह्निः। इत्यादि श्लोकाष्टकं पञ्चदश्याः एकादश्प्रकरणे समाध्यभिधानात्मकब्रह्मसुखं विव्रियते॥
26. KaushItakibrAhmaNopanishhat
पर्यङ्कप्राणविद्याभ्यां कौशीतक्यात्मविद्यया। इन्द्रप्रतर्दनाख्यायां प्राणप्रज्ञात्मको बुधः॥६९
प्रज्ञापेता च वाङ्नाम न हि प्रज्ञपयेदिह। स्वाराज्यमाधिपत्यञ्च विद्वान् पर्येति सर्वतः॥७०
इदन्द्रज्योतिः आर्षदर्शनेन स्वमात्रं सर्वतोऽपश्यत्। सर्वभेदरहितप्रज्ञात्मवेदनं विवक्षितम्। ब्रह्मण एव प्राणप्रज्ञाख्य-
उपाधिद्वयगतधर्मेण स्वधर्मेण च एकमुपासनं त्रिविधं इति निर्णितं सूत्रभाष्यप्रतर्दनाधिकरणे॥
CONTENTS PAGE BRAHMAMRTAM LINK PAGE (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)
JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE