Continued from Page 5


12. BrahmabindUpanishhat

ब्रह्मबिन्दुशिरःप्रोक्तमथनेन परं शिवम्‌। निर्विकल्पमनन्तं यत्‌ तत्तादात्म्यं मनोश्नुते॥ ४५॥
अश्नोतीत्यक्षरः प्रोक्तः भूते भूते व्यवस्थितः। एकधा बहुधाचैव दृश्यते जलचन्द्रवत्‌॥ ४६॥

देवयजनार्थं कल्पिते अस्मिन्‌ प्राणक्षेत्रे शरीरे दैवासुरवृत्योः मथनार्थं आरब्धयोः अमृतत्वसिद्ध्यर्थं युद्ध एव भवति।सत्त्ववृत्तेर्वा
रज आदिवृत्तेर्वा जयानुगुणमेव शुभं वा अशुभं वा कर्म क्रियते। स्वधर्मे यथा प्रवृत्तिः स्वमृतं लभ्यते। विपरीतप्रवृत्तेश्च
सम्सारवृद्धिःदुस्सङ्गदुरभ्यास दुष्कृत्यादिभिः यदा स्वस्य वा परस्य वा अपकारः क्रियते तस्य दुःखफलमेव जायते। अतः यथाकालं सदुपदेशग्रहणं
सदाचरप्रवृत्तिश्च यथा सम्भवेत्‌ तदैव श्रेयो हेतुर्जायते आत्मनः एकरूपत्वेऽपि जलरूपप्रतिवृत्तौविविधरूपेण भासत इतिलोकोऽयं मन्यते खलु॥

13.Kaivalyopanishhat

कैवल्यस्वावशेषत्वं सर्वतेजोभिभाविना। निष्कलात्मज्योतिषैव सर्वबन्धाद्विमुच्यते॥ ४७॥

यत्प्रकाशेन सर्वावस्थाभासनं भवति तस्य केवलत्वं एकत्वं सर्वत्वं पूर्णत्वञ्च सिद्धं भवति। केवलसत्तासामन्यस्वरूपावस्थितः विद्वान्‌ अशेषविशेषशून्यब्रह्ममात्रपदारूढकेवलस्य शुद्धपूर्णात्मनः न कदापि कर्तृत्वं सम्भवति॥

14. JAbAlopanishhat

भ्रुवोघ्राणस्य यत्सन्धौ ब्रह्मज्ञानप्रभामयम्‌। जगत्पश्यम्श्च जाबालात्‌ तेजोवृद्धिर्जपाद्भवेत्‌॥ ४८॥

यत्प्रभया जगदवभासते यस्मादिदं जगत्सर्पवज्जातं आदृष्टि स्थित्वा दृष्ट्युपसम्हारे विलीनं भवति। ज्योतीरूपमिदं ज्योतिरन्यन्न भवति॥

15. Hamsopanishhat

हम्सज्योतिर्नित्यसिद्धः मनोहम्सो विचार्यते। आधारात्‌ ब्रह्मरन्ध्रान्ते नादान्तध्यानमिष्यते॥ ४९॥

सर्वत्र ज्योतीरूपत्वात्‌ ज्योतिः पक्षः पक्षीव हिरण्मयः ऊर्ध्वं दिक्षु सर्वासु सञ्चरणशीलत्वात्‌ अन्तःशरीरेऽपि त्र्यवस्थासु नित्यं गच्छतीव विभातत्वात्‌
द्वा सुपर्णा सयुजेति श्रुतेश्च नीडाश्रितपक्षी यथा इमाल्लोकान्ननुसञ्चरन्‌ मध्याह्ने सायंकालं स्वनीडमेव प्रतिनिवर्तते सुखशयनार्थं पक्ष्युपमा
श्रुतीरिता च समञ्जसीति भवति॥

16. AruNikopanishhat

आरुणिकाख्योपनिषत्‌ ब्रह्मसूत्रमहं त्विति।गायत्रीञ्च स्ववाचाग्नौ समारोप्याथ केवलः॥ ५०॥
स्वपदे न्यस्य निखिलं स्वस्मिन्‌ सर्वञ्च पश्यति। एतामावर्तयेन्नित्यं आचरेत्सन्धिमात्मनि॥ ५१॥

स्वसूत्र एव सर्वस्य जगतः ओतप्रोतभावेन वर्तमानत्वात्‌ सूत्राच्छिथिलीकृतमणिगणानां मालात्मव्यवहारभ्रंश एव भवति। रसात्मके भगवति
आपः यथा ओताः प्रोताश्च भवन्ति अन्योसावन्योहमस्मीति भावस्य दूषितत्वात्‌ स्वरूपमेव ब्रह्म तत्रैव सर्वं ओतञ्च प्रोतञ्च
स्वस्मादन्यन्नकिञ्चनेत्युपनिषद्वाक्यं सदावर्तयेत्‌॥

17. Garbhopanishhat

ज्ञानदर्शनकोष्टाग्नित्रयं च श्रियतेऽत्र हि। रेतश्चेतति गर्भस्थं न मे जन्यादि कुत्र च॥५२॥
इत्येवमशरीरित्वे तत्प्रपद्ये महेश्वरम्। अशुभक्षयकर्तारं सूक्ष्मरूपेण सर्वगम्॥५३॥

गर्भस्थितरेतसः अनितरसाधारणशक्तिमत्वात् महेन्द्रजालवन्मायिकमेव इति शरीरत्रयापन्नवसिद्धस्वमात्रमेव निष्प्रतियोगिकं इति
स्वतत्वबोधकगर्भोपनिषदि ज्ञानाग्निः शुभाशुभञ्च कर्म विन्दति। दर्शनाग्निः रूपाणां दर्शनं करोति। कोष्टाग्निश्च अशितपीतलेह्यचोष्यं पचतीति॥

18. NArAyaNopanishhat

नारायणज्योतिषोन्यत् वस्तु नैवेह लभ्यते। तस्मिन् प्रकल्पितं सर्वं इत्यष्टाक्षरमोमिति॥५४॥
स्वज्योतिर्ब्रह्मपुरुषः महीयान् महतोपि च। अष्टमूर्तिस्वरूपेणाद्वैतं कारणं परम्॥५५॥

श्रीमदष्टाक्षरमहामन्त्रे ओं इति शब्दस्य अहंइत्यर्थः नमः शब्दः ऐक्यं ब्रूते। अहं नारायणाख्यं परं तत्वमेव।
अहमेवाधस्तादहमुपरिष्टात् इत्यादि छान्दोग्यगतवाक्यैः अहमेव सर्वमियद्वैतमेकं वस्त्वेव प्रतिपादयति॥

CONTINUED ON PAGE 7

HOMEPAGE

GITAMRTAMAHODADHI TITLE PAGE 

CONTENTS PAGE BRAHMAMRTAM LINK PAGE  (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)         

JNANAMRTAM LINK PAGE (Ch.4)                    YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE