(Continued from page 4)

9. Chaandogyopanishhat

विद्वद्भिः क्रियमाणस्य यज्ञस्य श्रैष्ट्यमुच्यते। स्वशक्तेश्चापि विस्तारे ह्यविकार्योयमुच्यते॥३०॥
मायावशात् बहुत्वेपि एकं सत्यं तथाद्वयम्। वाचारम्भणमेवेति चान्दोग्योपनिषद्रसम्॥ ३१॥
सर्वञ्च खल्विदं ब्रह्म स्वमात्रस्यावशेषतः। स्वातिरिक्तस्य सर्वस्याप्यवस्तुत्वेन निश्चितात्॥३२॥
सदेवासीद्यदग्रे च तज्ज्योतिस्त्वं सदा भवेत्। पराहन्तेति भूमायाः महत्वं प्रतिपाद्यते। ३३॥

उत्तमादेशमप्राक्ष्यः इति एकविज्ञाने सर्वविज्ञानं प्रतिज्ञाय तदेव कथं नु भगवस्स आदेशो भवति इत्याशङ्कापूर्वकं यथा सोम्या इत्यादिना  दृष्टान्तैरुपपाद्य ततो दार्ष्टान्तिकं प्रपञ्चयितुम् सदेव सोम्येदं इति त्रिविधभेदशून्यं सद्वस्तूपक्रम्य तद्धैक आहुः इत्यसद्वादमाशङ्क्य कथमसतस्सज्जायते इति तत्प्रतिषिध्य सद्रूपस्य ब्रह्मणः जडविजातीयभेदाभावमुपपादयितुं तदैक्षत बहुस्यां इत्यादिना वियदादेस्सर्वस्य जडस्य तत एव सृष्टिमुक्त्वा सजातीयभेदनिराकरणाय तस्यैव जीवरूपेण प्रवेशञ्चाभिधाय त्रिवृत्करणपूर्वकं नामरूपसृष्टिन्चोक्त्वा  ततो ब्रह्मणः स्वकार्याकाशादितः भेदव्यावृत्तये जगन्मिथ्योक्तिपूर्वकं देहवाक्प्राणमनसां अनात्मता उच्यते। ततः श्वेतकेतोरुपदेशः क्रियते। नानावृक्षसमुदायमधु यथा मधुकरैर्न विच्यते तथैव सुषुप्त्यादौ प्राप्तमपि ब्रह्म न ज्ञायते नदीसमुद्रवीचीन्यग्रोधलवणादि दृष्टान्तैः तत्त्वञ्च प्रकटीकृतम्॥

10. BRRihadAraNyakopanishhat

बार्हदारण्यकम् ज्ञानं ब्रह्मात्मैकत्वदर्शनम्। नित्यदृष्टियुतो विज्ञः विविधस्वञ्च पश्यति॥३४॥

मधुकाण्डे अश्वमेधविषयविज्ञानफलं प्राणस्य श्रैष्ट्यं इन्द्रियेभ्यः आत्मस्वरूपञ्च याज्ञवल्क्य (यज्ञस्य वल्को वक्तेति) काण्डप्रतिपादितानि।नेति नेतीत्यतदपलापपूर्वकं तत्स्वरूपं तद्विज्ञस्य दुरूहता ब्रह्मसाक्षात्कारस्य आवश्यकता त्र्यवस्थासु जीवस्थितिश्च श्रवणादीनि। तृतीये खिलकाण्डे उपासनविषयः॥

11. ShvetAshvataropanishhat

श्वेताश्वतरो ब्रह्मवित् ध्याननिर्मथनादिह। गृह्णाति तैलवत्तेजः सूक्ष्मं व्यापि यदैश्वरम्॥ ३५॥
तत्र द्वितीये स्वज्योतिः भ्राजतेजं ध्रुवं स्वतः। तत्त्वजातैरसंस्पृष्टः महास्फटिकरूपतः॥ ३६॥
अघोरं यत् ज्ञानमूर्तं ब्रह्मवृक्षस्सनातनः। अपाणिपादो जवनः पुरुषोत्तम ईश्वरः॥३७॥
शक्तिमज्ज्योतिरेकं यत् निर्गुणञ्च तथाव्ययम्। गुहायामक्रतुम् पश्येत् हंसं शोकादिगं सदा॥३८॥
तुरीये दृश्यते माया सृज्यमानाच मायिना। अवर्णे वर्णजाताश्च शक्तियोगाद्विनिसृताः॥ ३९॥
घृतात्परं मण्डमिव ह्यतिसूक्ष्मतरं महः। कालास्पृष्टं यत् तत्सवितुर्वरेण्यम्॥४०॥
पञ्चमे प्रतिबन्धांश्च  निरस्य निरुपाधिकम्। तेजश्च युज्यते तेन यो यो देहश्च भावितः॥ ४१॥
एकाकी सञ्चरन्नेव सर्वानप्यधितिष्टति। नैव स्त्री न पुमानेषः न चैवायं न पुँसकः॥ ४२॥
स्वमहिम्नश्च विस्तारः स्वमृतं परिषिञ्चति। स्वज्ञ ईशोस्य जगतः षष्टके द्योतते शिवः॥ ४३॥
आनन्दरूपममृतं यस्मान्नास्त्यरमित्यपि। आत्मबुद्धिप्रकाशं तं शरणं गच्छ सर्वतः॥ ४४॥

बुद्धिकुद्दालकात् मनोभुवं खात्वा देहोपलमपाकृत्य आनन्दनिधिर्लब्धव्या। सगुणं निर्गुणमपि तेजोमयं अद्वितीयं आत्मानं दर्शनश्रवणमननविज्ञानलिङ्गं अक्रतुः अकामः  अदृष्टबाह्यविषयोपरतबुद्धिः यदा भवति तदा मन आदीनि करणानि धातवः प्रसीदन्ति। एषां
धातूनां प्रसादात् स्वव्यापृतिवैरळ्यात् आत्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यति वीतशोकः। यत्र यत्र य्द्यत्पश्यति सर्वत्रापि स्वमृतस्यैव परिषेचनं भवति। मधु वाता ऋतायते मधु वक्ष्यामि वदिष्यामीत्यादि श्रुतेः॥

CONTINUED ON PAGE 6

HOMEPAGE

GITAMRTAMAHODADHI TITLE PAGE 

CONTENTS PAGE BRAHMAMRTAM LINK PAGE  (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)         

JNANAMRTAM LINK PAGE (Ch.4)                    YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE