Continued from Page 3

7. TaittirIyopanishhat

प्रणवामृतमद्वैतं शान्तिसमृद्धममृतं। अमृतं धर्मकर्मादिमेधया धार्यते हृदा॥२५॥
अदेहत्वमकर्तृत्वं विज्ज्ञायापि स्वधर्मणः। पञ्चकोशादिसम्योगे तत्तन्मय इवस्थितः॥२६॥
ब्रह्मानन्दस्सर्वहेतुः तद्व्याप्तं सचराचरम्। स्वकल्पितं तथा व्याप्य कल्पितस्यापि भर्जकम्॥२७
सैषा च भार्गवी विद्या अहं विश्वान्निभूस्सदा। पराहन्ता प्रतिष्ठा च वैदिकैः कर्मभिस्सदा॥ २८॥

हार्दाकाशे मनोमयःअन्तःकरणाभिमानी विज्ज्ञानज्योतिर्मयः आत्मा इन्द्ररूपः। शरीराभिमाननिमित्ता हि सर्वे पाप्मानः। तान् शरीर एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयैव आत्मना सम्यक् भुङ्क्ते। न हि आत्मनः अन्यत् अनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते। अतो नामरूपे सर्वावस्थे ब्रह्मणैवात्मवती। न ब्रह्म तदात्मकम्। अन्नान्नादस्वरूपोहं विश्वं भवनं यत्र भूतानि भवन्ति
अभिभवामि परेणेश्वरेण स्वरूपेण॥

8. Aitareyopanishhat

ऐतरेये दृश्यलोकात् व्युत्क्रम्य स्वे च तिष्टति। प्रज्ज्ञानघनमेवाहं तदेव बहुनामकं॥ २९॥

सर्वाधिष्ठानं हि ऐश्वरं रूपं प्रज्ञानमित्युच्यते। ईक्षितृ ईक्षणपूर्वमेव लोकाः सृज्यन्ते। सृष्टानां देवानां स्वस्वकार्यनिर्वहार्थं
मूर्धसीमाविदारणेन ब्रह्मरम्ध्रद्वारा प्रविश्य जीवभावमपन्नः पूर्वसुकृतवशात् वेत्तुमिच्छुरभवत्। येन वा पश्यति येन वा शृणोति स
आत्मा प्रज्ञानेत्रः सर्वान्येवैतानि प्रज्ज्ञानस्य नामधेयानीति॥

CONTINUED ON PAGE 5

HOMEPAGE

GITAMRTAMAHODADHI TITLE PAGE 

CONTENTS PAGE BRAHMAMRTAM LINK PAGE  (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)         

JNANAMRTAM LINK PAGE (Ch.4)                    YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE