4. Prashnopanishhat
प्रश्ने द्रष्टृश्रोतृमन्त्रज्योतिरेव लयाश्रयः। अकलष्षोडशी विद्वान् छायावच्चकला जनिः॥१४॥
देहेन्द्रियप्राणमनोबुद्धिविलक्षणात्मशोधनेन यथा पादोदरस्त्वचा विमुच्यते त्वक्स्थानीयेन अशुद्धिरूपेण तथा अहं त्वा सर्वपापेभ्यः शरीर-
त्रयरूपकप्रतिबन्धैः विनिर्मुक्तः ऊर्ध्वमुन्नीयते ब्रह्मलोकम्। ओंकारस्य यथोक्तविभागज्ञः कुतोवा चलेत् कस्मिन् वा॥
5. MunDakopanishhat
मुण्डके लक्ष्यवेधी यः अक्षरात्परतः परः। स्वमात्रत्वेन वृणुते यो वेद ज्ञातृरूपकम्॥१५॥
तेन लब्धं स्वप्रकाशयाथात्म्यं स्वावशेषतः। श्रोत्रियब्रह्मनिष्ठस्य सद्गुरोश्च प्रसादतः॥१६॥
मनस्येव सुषुप्ते लयः जगतां जागरितेपि मनस एव अह्निविस्फुलिङ्गवत् सर्वं जायते। न विश्वं नाम पुरुषादन्यत् किञ्चिदस्ति। इति यो वेद तस्यैव अविद्या वासना
ग्रन्थिवत् दृढीभूता अपि नाशमेति। येन आत्मैव पूर्णतया सर्वतः परिदृश्यते॥
6. MANDUkyopanishhat
अमात्रोहं चतुर्थोहं प्रपञ्चोपशमश्शिवः। माण्डूक्यात्मा तुर्यतुर्यः संविशत्यात्मनोमिति॥१७॥
हृदिस्थ ईश्वरो व्यापी तुरीयो मूर्ध्नि संस्थितः। आगमेनैव निर्णीतं निर्गुणज्योतिरोमिति॥१८॥
स्वप्नजागरवैतथ्यं ज्ञात्वा द्वैते नियोजयेत्। तदच्युते च तन्निष्ठे मायया कल्पितेखिलम्॥ १९॥
विश्वं माया स्वप्नवच्च गन्धर्वनगरं यथा। जनिर्मृतिर्गतिर्नास्ति चेत्येषा परमार्थथा॥२०
न बिभेत्यस्पर्शयोगी द्वैतं नास्तीति निश्चयात्। मायाभिः पुरुरूपोहं मनोनिग्रहवैभवात्॥२१॥
अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते। अज्ञानस्यापि यद्ज्ञाने ज्ञानैक्यं बोध्यते किल॥ २२॥
अस्पन्दमानं विज्ज्ञानं अजाचलमवस्तु यत्। अभूताभिनिवेशेन असत्यं भासते किल॥२३॥
ब्राह्मण्यमद्भुतं तत्त्वं मनो नास्ति न वासना। प्रकृत्याकाशवत् ज्ञेयाः सर्वे धर्मा अनादयः॥ २४॥
औपनिषदम् ज्ञानं सम्यग्दर्शनं। अतिगम्भीरमिदं आगमातिरेकिमानायोग्यं। आगममन्तरेण नो प्रेक्षितुमपि शक्यम्। नेदं प्रत्यक्षगोचरं रूपाद्यभावात्।
न अनुमानादिगोचरं लिङ्गाद्यभावात्। एकभावयाथात्म्यं गीतोक्तम्। तं तु औपनिषदं पुरुषं पृच्छामि। बृ ३-९-२६। नावेदविन्मनुते तं बृहन्तं
(taittiriya-brAhmaNam: 3-12-9-7 -- This reference is not traceable - ed.)
ज्ञानाग्निसात्कृतमिदं दृश्यजातं भस्मेति पुरीषमिति च निश्चयः शास्त्रादेव सिद्ध्यति। ब्रह्मात्मैक्यानुभवाज्जातोयं निश्चयः। श्रुत्या युक्त्या
स्वानुभवेन स्वसार्वात्म्यं ज्ञातव्यं। वासनाबलात् अध्यारोपितस्य अपवादः क्रियते शास्त्रेण। आगममात्रसमधिगम्यं। नैषा तर्केण मतिरापनीया।
को अद्धा वेद। जगत्कारणं दुर्बोधमेव। यतः जगदेव नास्तिमायैव दृश्यते। अचिन्त्याः खलु ये भावाः न ताम्स्तर्केण योजय्त्। न मे विदुः सुरगणाः
प्रभवं न महर्षयः इत्यादयः द्रष्टव्याः। तस्मात् वेदैकसमधिगम्य आत्मा तुर्यतुर्यं निस्त्रैगुण्यं तेजः इति यत् तदेव सत्यं इतरेषां वैतथ्यञ्च
प्रतिपाद्यते।
तथं नाम ब्रह्ममात्रं। यथा निष्प्रतियोगिकस्वमात्रं तथैव सदा वर्तत इति। तन्न भवतीति स्वातिरिक्तमसत् वितथम्। अतः स्वस्वरूपमेव तथम्। स्वेतरवस्तुनः
अत्यन्तासम्भवात् जनिगत्यादीनामपि वैतथ्यम्। मायागुणानुरूपतः विभातीदं जगत्। अद्वैतं प्रत्यगभिन्नतुर्यं ज्योतिः तथम्। अस्पन्दमानं विज्ज्ञानम्। जन्मादीनां
मायोपमत्वात्। मायाया अत्यन्तासम्भवाच्च। निर्विषयं चित्तं आत्मैव। अलातचलने यथा आभासाः दृश्यन्ते ऋजु (this word is not clear in the original mss. - ed.)
वक्राद्यात्मना। तथा असत्स्वेव जात्यादिषु अचले विज्ज्ञानमात्रे जात्यादि बुद्धिर्मृषैव। ज्ञानोल्कया पश्यति सर्वम्॥
BRAHMAMRTAM LINK PAGE (Ch.1)
PRANAVAMRTAM LINK PAGE (Ch.2) JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5)