अष्टोत्तरशताख्योपनिषद्गुह्यं हनूमते। ऋचः षोडशसाहस्र्यः अद्वैतज्ञानदा इति॥ ५॥
श्रीकृष्णस्त्रिय एताश्च रामेण ख्यापिता स्फुटं। स्तम्भषोडशसाहस्रमण्टपे देवता पुरे॥ ६॥
सर्वोपनिषदां सारं गीतासारतयोच्यते। ग्रन्थतोप्यर्थतश्चापि एतस्यावर्तनं तपः ॥ ७॥
इतीशादि मुक्तिकान्तं अधिगम्य यथाविधि। वैदेहं पदमासाद्य कैवल्यं पदमश्नुते॥ ८॥
कृष्णोपनिषद्रीत्या १६१०० स्त्रियः ऋचोपनिषदो ब्रह्मरूपाः। सहस्रस्तम्भमध्ये स्वर्णसीता समेतः श्रीरामः अश्वमेधं कृतवान्। एवं प्रत्यश्वमेधं
स्वर्णसीतां ब्राह्मणाय दत्तवान् यागन्ते। १६ अश्वमेधयज्ञाः निवर्तिताः। ब्राह्मणैराशीर्भिः प्रतिनन्दितः। प्रतिसीतादाने च सहस्रपत्न्यः भवन्तु जन्मान्तरे इति।
अद्वैतोपनिषत्सारस्यैव गीतासारत्वेनोक्तवान् ता उपनिषदः क्रमादत्र संग्रहतया लिख्यन्ते। सारमेव सागरतया विवरणं कर्तुं शक्यं।गूढं यद्रहस्यार्थं गुर्वात्मभक्तस्यैव प्रतिभाति॥
1. IshAvAsyopanishhat
ईशाखण्डस्वरूपेण स्वेनावास्यमिदं जगत्। दृश्येषुस्वस्वरूपं च स्वरूपे दृश्यकोटयः॥ ९॥
अपश्यतश्च देहादि स्वधर्माननुतिष्टतः। तत्र को मोहः कः शोकः एकत्वमनुपश्यतः॥१०॥
प्रत्यगभिन्नमैश्वरम् ज्योतिः येन पूर्णेन आवास्यं दृश्यजातं दृश्यं यस्मिन् प्रवर्तते चिदम्बरसदृश्य-स्वीयरूपस्य मध्ये दृश्यं निक्षिप्य दृश्यं
शून्यम् कृत्वा तत्स्थाने स्वरूपं निक्षिपेत्। एवं कृते सति कारकादय एव न दृश्यन्ते।स्वभाव एव करोति। हेयं जगत् ईशेनाच्छाद्यते॥
2. Kenopanishhat
केने स्वबोधस्सर्वत्र प्रेर्यप्रेरकता न हि। दृश्यं नोपासितुं योग्यं अन्तस्तदुपासितव्यम्॥११॥
बोधे घटपटादीनां बोधस्यैवेह सत्यता। अवबोधरसश्शुद्धः नित्यो बुद्धस्सनातनः॥१२॥
घटं जानामीत्यत्र घट विलक्षणस्वस्वरूपास्तित्वबोध एव जायते। उपास्योपासनादित्रिपुटीविकलमेव निष्प्रतियोगिकतया स्वमात्रं यदा बुध्यते तज्ज्योतीरस
एवामृतं ब्रह्म। श्रोत्रादिषु आत्मभावं यः परित्यजति स एव धीमान्। नित्यद्रष्टृश्रोतृधर्मवानात्मा। तथापि अद्रष्टा अश्रोता इत्यादिना अकर्ता महाकर्तेव दृश्यमानोपि। प्रत्यग्ज्योतिर्दर्शनमेव सम्यग्दर्शनं यत्पूर्णैकत्वतया प्रेर्यप्रेरकादिकलनपि न विद्यते। प्रत्यगभिन्नब्रह्मात्वैक-ज्ञानेन अज्ञानबीजं शिथिलयन्ति विद्वांसः॥
3. Kathopanishhat
जनिर्मृतिः कटे नास्ति स्वेतरासम्भवस्सदा। ब्रह्मविद्ब्रह्म एवेति ओमित्यलम्बनं परम्॥१३॥
एकस्मिन्नेवात्मनि चेतनस्समाधानं अध्यात्मयोगः। अशेषविशेषरहितस्यैव आलम्बनं तद्व्यतिरिक्तवस्तुनः अभावात्। आत्मनैवात्मा लभ्यते।अशब्दास्पर्शरूपत्वादात्मनः। वाङ्मनोनियमनाल्लभ्यः परमात्मा। आत्मलोकः आत्मज्योतिषा वेष्टितो भवति॥
BRAHMAMRTAM LINK PAGE (Ch.1)
PRANAVAMRTAM LINK PAGE (Ch.2) JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5)