GITAMRTAMAHODADHIH - Chapter 3
ADVAITAMRTAM
अथ तृतीयाश्वासः
अद्वैतामृतविद्येति सत्यं चित्रश्रवस्तमं ।
भूमज्योतीरस इति यत्र नान्यच्च पश्यति ॥ १॥
भूमानं पदमासाद्य यो मा भूमा माप्रहासीत् ।
सर्वात्मं सर्वगं चापि स्फाटिकं लिङ्गमव्ययं ॥ २॥
सर्वविद्यावरिष्ठेति ब्राह्मी श्रीः पदवी नृणां ।
सैषाम्बा श्री जगन्माता गायत्री परदेवता ॥ ३॥
मुक्ति श्री राजमानेन महता द्योतितप्रभः ।
रेफज्योतिर्निर्गुणं हि स मायो राम उच्यते ॥४॥
एकमेवाद्वयं सत्यमिति अनेकः निषिध्यते । भूमैव महत्पदमिति तज्ज्योतिरेव ब्राह्मी श्रीः । ओजोसि सहोसीति श्रुतेः । सर्वाभिभवनज्योतिरहं विरजा इति । अम्ब ते बध्नातीति महामाया जगदम्बा गायत्रीसन्ध्यादिपदैरुच्यते । मायागुणा एव देहिनं निबध्नन्तीति गीतं । एकस्या एव शक्तेः भोगकाले भवानीति नाम पौरुषत्वे विष्णुरिति नाम
कोपकाले महाकाळीति युद्धकाले दुर्गेति सर्वत्र सर्वदा च राजमानं यन्महः सशक्तिकमेव । परमाद्वैतविज्ञानी परदेवतैव इति सूतसम्हिता ॥
Homepage Contentspage advaitamRtam link page
BRAHMAMRTAM LINK PAGE (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2) JNANAMRTAM LINK PAGE (Ch.4) YOGAMRTAM LINK PAGE (Ch.5)