Previous Page

GItA-Nectar I - 466 - 487

आवृण्वन्तः स्वस्वरूपं असङ्ख्याता उपाधयः।
उत्सवे जनबाहुल्ये दुर्लभं लिङ्गदर्शनं॥४६६॥
प्राधान्यतोष्ट एवेति अष्टमूर्त्यात्मका इति।
अपरा प्रकृतिश्चैषा जडरूपात्मकेति च॥४६७॥
तत्प्रातिभासिकीत्येव प्रतिबिम्बाधिकं यथा।
उपाधी रेचयित्वैव निरुपाधिक-दर्शनम्॥४६८॥
महादर्शायितो देवः आभासो यत्र दृश्यते।
इदं दृश्यं हुनेत् स्वाग्नौ स्वस्यैवोद्धरणादपि॥४६९॥

उत्सवादिषु जनसङ्खे जनमध्यगतरंध्रद्वारेपि स्वामिदर्शनं भवति। तथैव लोके सम्बन्धे सत्यपि
सर्वगतस्थज्योतिः सूक्ष्मदृष्ट्या किल भाव्यते निरस्यापीतरान् भावान् भावेनैव शुद्धेन। दृश्यमानं
कोट्यण्डमपि अष्टप्रकृतिकं वा त्रिगुणात्मकं वा भावयन् तदुपाधिद्वारापि तद्दर्शनमेव विधीयते यथा
पञ्चायतन-पूजायां पञ्चब्रह्मात्मक-विद्यायां वा एकभावग्रहणमेव शास्त्रीयम्॥

प्रकृतेर्विजयः कार्यः तद्गुणानामसेवया।
ज्ञानवैराग्ययुक्तेन श्रद्धा-ध्यानादिभिस्सदा॥४७०॥
अजामेकामितिश्रुत्या दैवी माया दुरत्यया।
इत्येवं श्रीभगवता मायातारोविव्क्षितः॥४७१॥
तरणं तदसम्स्पृष्टिः नान्यथा तच्च सम्भवेत्।
प्रकृष्टं यः करोतीति सैषा प्रकृतिरुच्यते॥४७२॥
साक्षादेषा जगद्धेतुः मेयो बाध्यस्तथैव च।
मेयः प्रमेयो विषयः यद्विचारान्न लभ्यते॥४७३॥
प्रकृतेर्गुण इत्येव राहोः शीर्षं यथेति च।
सदाभासात्मिका चैषा तद्गुणस्फूर्तिरूपतः॥४७४॥
तथास्याः परतन्त्रत्वं पृथक्सत्ता न हि क्वचित्।
अस्याः स्वप्नोपमत्वाच्च स्वाधिष्टानस्य बोधतः॥४७५॥
बाध्यतेति न सद्वस्तु नाप्यसद्भासमानता।
तस्मान्मुखाभासवच्च प्रकृतिः प्रातिभासिकी॥४७६॥
तदेवभ्रान्तिवेलायां व्यावहारिकमुच्यते।
स्वाधिष्टानं समाश्रित्य सूते प्रकृतिरद्भुतम्॥४७७॥
विद्यामयोमृतं ब्रह्म प्रकृतिं भासयत्यहो।
दृश्याख्यविकृतिद्वारा प्रकृतेः स्वप्रकाशता॥४७८॥
तस्मात्प्रकृत्युपासा च विहिता बहुशः श्रुता।
प्रकृतेर्विजयं कृत्वा ह्युपादेयोक्तमाम्बिका॥४७९॥
स्वतेजसा योभिभवः प्रकृतेर्यददर्शनम्।
साक्षाच्छ्रीः पुरुष इति अद्वैतश्रीस्सशक्तिका॥४८०॥

गुणानां परस्परेण विचित्रसम्हतिः शक्तिरितीरिता। शक्तिमध्ये मनः कृत्वा मनश्शक्तेश्च मध्यगम्। मनसा मन
आलोक्य तदपि परित्यजेत्। इति योगकुण्डलिन्युपनिषद्रीत्या देवात्मनो निर्विशेषस्य तदभेदाध्यासेन तत्परतंत्रा
सृष्ट्यादिकारिणी काचन शक्तिः श्वेताश्वतरीयशक्तिः अनुसंधेया। स्वरूपेण शक्तिमात्रेण अनुपलभ्यमाना।
स्वगुणैर्निगूडेत्युक्ता। कुण्डलिनी शक्तिमध्ये पूर्णिमादृष्टिकलितं मनः लयं कृत्वा मनःप्रवृत्तिनिमित्त-
प्रत्यगभिन्नत्वमापन्नेन मनसा तद्भावाभावप्रकाशकः मनस्तत्कार्यापवादाधिकरणम् ब्रह्मास्मीत्यालोक्य
एवमालोकनवृत्तिमपि संत्यजेदिति यत् तद्विष्णोः परमं पदम्। एवं प्रवृत्त्यालोकनान्निवृत्तः तद्भावाभाव-
वृत्तेरपि निवृत्तः यः स एव अद्वैतप्रत्यगभिन्नश्रियमनुभवति॥

यस्यैव मूर्त्यष्टधेति तज्जयादप्यमूर्तकम्।
दृश्यशान्तिस्तज्जयो हि तदर्थं गीतिशासनम्॥४८१॥
असेवया गुणानां च वैराग्याभ्यासयोगतः।
तदुपेक्षापूर्वकञ्च स्वशक्त्यन्वेषणं परम्॥४८२॥
दृश्येष्वभिमतिं त्यक्त्वा भुवो विट्सूक्ष्मदर्शिता।
आगमापायिदुःखानां तितिक्षामृतलब्धये॥४८३॥
अन्तवन्ति च दृश्यानि भोगाः सम्स्पर्शजा इति।
उल्कावदुपयुञ्जन्ति धीराः प्रद्योतिनस्तदा॥४८४॥
प्रतिनूत्नं च शक्तीनां वैचित्र्यमनुभूयते।
शक्तिर्हि स्वगुणैर्गूढा शक्तिकारणमाश्रयेत्॥४८५॥
स्वसुप्ताः शक्तयोऽपीह उन्मिषन्ति च संगतः।
काले सत्कृतिसत्सङ्गौ सद्भक्तिस्सत्तपस्तथा॥४८६॥
गवेषणीया एते च यैरेव प्रकृतेर्जयः।
इच्छाज्ञानक्रियादीनि अक्षाणां परिणामतः॥४८७॥

प्रकृत्यर्थस्य विषयीकरणेन तदवच्छिन्नचैतन्यमुपगम्य तत्समानप्रत्ययप्रवाहेण दीर्घकालं नैरन्तर्येण
मनस्तत्रैव निक्षिप्य तदन्तःस्थ-चिच्छक्त्यन्वेषणमेव सन्ध्योपास्तिरित्युच्यते। दृश्यस्य अन्तःप्रवेशेन तत्स्थूलभावः
परित्यज्यते। अन्तःस्थभावः सर्वत्राप्येक एव। दृश्ये तावत् अहंकारममतादि परित्यज्य स्थूलभावः उपेक्ष्यते। तद्भावः
क्षणिक एव आगमापायी च। इन्द्रियविषयसंबन्धास्सर्वे दुःखफलकाः। आद्यन्तवत्त्वात् हेयाः। गुणगूढाश्शक्तयः
गुणान्तरुपासनेन निस्त्रैगुण्यरूपं प्रपद्यते॥

Onward to Next Page
Back to Titlepage Back to Links to Slokas of Chapter 1HOMEPAGE
Copyright V. Krishnamurthy Oct.3, 2010