Previous Page

GItA Nectar I - 488 - 510

अन्तर्निरोधव्युथानात् समये च स्फुरन्त्यतः।
प्रतीतिभेदकृच्छक्तिः परिणामादिरीरिता॥४८८॥
अनुन्यासं गुणानाम् च भावः स्फुरति चाद्भुतम्।
भावेभ्यश्च समुथानं प्रकृतेर्जयमीरितः॥४८९॥
योगबुद्ध्या कृतं कर्म नाहंकारप्रयुक्ततः।
अकर्ता साक्ष्यहं देवः इति भावे च धीजयः॥४९०॥
निस्त्रैगुण्यश्च निर्द्वन्द्वः निष्कामोऽहं च निष्क्रियः।
गुणा गुणेषु वर्तन्ते इति विद्यामयो नरः॥४९१॥
अहं वेद न मे मृत्युः न मे देहेन्द्रियाणि च।
इति भावेन पूतस्य प्रकृतिर्वशमेष्यति॥४९२॥
इन्द्रस्यापि प्रियं काम्यं अमृतं रसमद्भुतम्।
समाधिस्थस्यात्मवतः प्रकृतिर्वशमेष्यति॥४९३॥
यस्याऽरुचिश्चान्यधर्मे स्वधर्मे कल्पितेऽपि च।
स्वभावतो यस्य निष्टा प्रकृतेर्भङ्गविज्जयी॥४९४॥
इति सर्वत्र सर्वांश्च विचार्यैव पुनः पुनः।
श्रुत्या युक्त्यान्तरीक्षेभ्यः एकसत्ता विनिश्चिता॥४९५॥
ब्रह्मैवायं न ब्रह्मवित् दर्शनादर्शने त्यजेत्।
स्वयं केवलरूपेण गुरुः स्वात्मैक्यबोधतः॥४९६॥

पूर्वजनिकृत-शुभाशुभकर्म-संस्कारतः वर्तमानजन्मनि तद्वासनाभिव्यक्तेः प्रकृतत्वात् प्रकृतिरुच्यते।
मिथ्याकल्पितेषु लौकिकेष्वापि वस्तुषु प्रकृतिर्नान्यथा भवति। यथा संसिद्धिकी प्रकृतिः अणिमादिः स्वाभाविकी
अग्न्यौष्ण्यादिवत्। सहसा पक्ष्यादीनामाकाशगमनावत्। अकृता अपां निम्नदेशगमनादि। प्रकृतेर्वशवर्तित्वं
दुर्मार्गवाहकम्। स्वाभाविकी प्रवृत्तिः जनानांच रागद्वेषानुगुणा। एतन्निवृत्त्यर्थं नित्यनैमित्तिककर्माणि विहितानि।
वेदोदित-अनवद्याणि कर्माणि रजस्तमोगुण-निवृत्तिपराणि सात्विकबुद्ध्युत्पादकानि च। दर्शनादर्शनत्यागश्च न्यासिनां
स्वभावः। दर्शनं नाम स्वातिरिक्त-स्वाज्ञ-दृष्टि-प्रसक्तक-विद्यापद-तत्कार्यजातारोपः। अदर्शनं नाम तत्सर्वापवादः।

सर्वात्मत्वमिति श्लोके अब्रह्मत्वमसर्वता।
अविद्यया कल्पितत्वात् तस्या अपि निवृत्तितः॥४९७॥
सर्वञ्चाप्येकमेवेदं व्याप्य-व्यापकता न हि।
एको मनोमयो धीरः पुरुषश्च हिरण्मयः॥४९८॥
हिरण्यवर्णस्तद्बाहुः सर्वं ज्योतिर्मयं त्विति।
सर्वाभिभवनञ्चापि ज्योतिर्देहेन सिद्ध्यति॥४९९॥
सार्वात्म्यञ्च स्वतः सिद्धं स्वायत्न-दीप्तिमान्-नरः।
द्रष्टेर्द्रष्टाप्यहं ज्योतिः संत्यागे दृष्टिदृश्ययोः॥५००॥
दृशिज्योतिर्पूर्णभूमा नित्यदृग्रूपदर्शनं।
न शक्या विषयीकर्तुं दृष्टितत्त्वं बहिर्दृशा॥५०१
दृष्टि-दर्शन-दृश्यानां अप्रतीतिर्यदा भवेत्।
बाह्यौत्सुक्य-निवृत्तिः स्यात् स्वाध्यारोपित-नाशकः॥५०२॥
तदैव सच्चिदानन्दाः एकीभूताह्यखण्डतः।
अभावाद्दृश्य-कोटीनां दृश्यं शान्तमिति श्रुतिः॥५०३॥
विषयाणां च तुच्छानां स्वञ्च निष्प्रयोगिकम्।
स्वाम्शेनानुप्रवेशेन सर्वत्वब्रह्म तेऽपि च॥५०४॥
सिद्ध्यतः स्वत एवेति स्वाविद्यायास्तिरस्कृतेः।
स्वाष्टकस्य फलप्रप्तौ सर्वेप्यधिकृता इति॥५०५॥

स्वीयज्योतिष्यरुणाचलवद्दृश्यमाने सशक्तिके अखण्डादर्शाधिते महति कल्पित देहादेर्वासनाप्रतिबिबितस्य
शून्यत्वात् कल्पितवासनावस्थास्वनुप्रवेशेन सर्वस्यापि रूपस्य प्रतिख्यापनं स्वस्य भवति नामरूपात्मक-
प्रपञ्चानां व्याकृतत्वात्। एवं अष्टप्रकृत्युपसम्हाराख्य-तज्जयः अवेक्षितः स्वाष्टकस्मरणादिभिः॥

प्रकृतिर्बाध्यते चेति पुरुषस्यावशेषतः।
एष नित्यो महिमेति ब्राह्मणानां स्वभावतः॥५०६॥
गायत्रा ब्राह्मणा विप्राः स्वाम्शुभिः पूरयन्त्यहो।
ऋतज्ञा अमृताः सर्वे पूर्वपुण्य वशादिह॥५०७॥
ब्राह्मणे निहितं तेजः तपः स्वाध्यायसंयमैः
ब्राह्मणेभ्यो नमस्यामः दैवतं हि हरेरपि॥५०८॥

ब्राह्मणा ब्रह्मरूपा महात्मानः विशेषेण पूरयन्ति लोकान् तेजसा यशसा ब्रह्मवर्चसा च।
सोमरजनः विद्या रसपूरिताः ब्राह्मणाः हरेस्तन्वः इति तन्मयत्वसिद्ध्यै तेभ्य एव नम उक्तिं विधेम॥

इति ब्रह्मात्मविद्येति सर्वं ब्रह्ममयं त्विदम्।
ब्रह्मातिरेकतो नास्ति गीतामृतमहोदधौ॥५०९॥
प्रथमाश्वास-सम्पूर्तिः ब्रह्मार्पणधिया कृता।
ब्रह्मेदं बृंहिताकारं तं वन्दे सोमसुन्दरम्॥५१०॥ ओम् तत्सत्।

हरेच्च स्वावशेषेण हर ओम् इति मन्त्रतः॥

Onward to Page 1 of Next Chapter
Back to Titlepage Back to Links to Slokas of Chapter 1HOMEPAGE
Copyright V. Krishnamurthy Oct.5, 2010