Continued from Page 14.

82. Avadhutopanishhat

अवधूतस्सर्वसाक्षी अश्वमेधं पदे पदे।
अन्तर्यागे करोत्येव धीरस्सन् न करोति च॥ १७६॥

अक्षरं। वरेण्यं। धूतसंसारबन्धनं। तत्वमस्यादि लक्ष्यं। इति प्रथमाक्षररचनया तत्तत्वनिष्ठत्वं मुख्यावधूतस्य
लक्षणम्। स्वातिरिक्तं सर्वमपि अश्वं इत्येव कल्पयन् तन्मेयः प्रतिक्षणं कर्तव्यं इति ध्यानात्मकरहोयागो भवति। तेन कर्मणि क्रियमाणेऽपि वस्तुतः नैव किञ्चिदपि करोति अहंकारराहित्यात्॥

83. Tripurataapinyupanishhat

त्रिपुरा तापिनी विद्या शताक्षरी त्रयी मयी।
गायत्री पञ्चदश्योश्च ऐक्यार्थो हि निरूपितः॥ १७७॥
स्वशक्तिवृद्धिर्मन्त्रैश्च हेयानाञ्च विरेचनात्।
स्वात्मप्रापकमन्त्राश्च शिवपञ्चाक्षरादयः॥ १७८॥

ओं जूं सः। ओं ह्रीं नमः शिवाय। तद्विष्णोः। ओं नमो भगवते वासुदेवाय। हँसश्शुचि। गणानां त्वा। ऐं वागीश्वरी।
प्रत्यगभिन्नज्योतिष्टं मन्त्रप्रतिपादितदेवानामपि॥

84. Devyupanishhat

श्रीदेव्युपनिषद्विद्या ह्रीमित्येकाक्षरंत्विति।
नवाक्षरी मन्त्रमिति ऐं ह्रीं क्लीं चामुण्डायैविच्छे॥ १७९॥
ब्रह्मविद्यामयोन्यासी चेशिवे वर्तते चिरम्।
प्रपद्ये शरणं देवीं दुं दुर्गे दुरितं हर॥ १८०॥

यत्स्वरूपं ब्रह्मादीनामपि मृग्यं सा अज्ञेया। यस्या अन्तो न विद्यते सा अनन्ता। यस्याग्रहणं नोपलभ्यते सा अजा।
या सर्वत्र वर्तते सा एका॥

85. Tripuropanishhat

कादिविद्या हादिविद्या चादिविद्यात्मशक्तितः।
ओं ह्रीमिति मन्त्रार्थः हर ओं स्वावशेषतः॥ १८१॥

ऐं ह्रीं श्रीं ऐं ओं क ए ईलह्रीं क्लीं ओं हसकहलह्रीं सौः ओं सकलह्रीं श्रीं ह्रीं ऐं॥

86. KaTharudropanishhat

तैत्तिरीयरसं लब्ध्वा देही च कठरुद्रतः।
यदिदं ब्रह्मपुच्छाख्यं गृहीत्वाहं तदोमिति॥ १८२॥

रसलाभादानन्दलाभः। दृश्यमानजडं पुच्छत्वेन कल्पयित्वा तद्द्वारा स्वकीयज्योतिर्भावनं उपायस्तल्लाभाय॥

87. BhAvanopanishhat

स्वात्मैव ललिता देवी कामेशस्संविदोमिति।
भावनोपनिषत्प्रोक्तं त्रिपुट्यैकी कृतिस्सदा॥१८३॥
आत्मैक्यदेवतासिद्धिः स्थिरभावनया भवेत्।
सर्वकारणभूता च शक्तिः श्री गुरुरेवहि॥ १८४॥

निरुपादिकीसंविदेव कामेश्वरः। सदानन्दपूर्णा स्वात्मैव परा देवता। एका सती भगवती सात्विका धीः
नर्तकीव बहुधा नटति॥

88. RudrahRRidayopanishhat

श्रीरुद्रहृदयाख्योपनिषद्विद्या रसं त्विदम्।
रुद्रात्मकत्वात्सर्वस्य तस्माद्भिन्नं न हि क्वचित्॥ १८५॥
वेद्धा वेधश्च वेद्धव्यं अद्वैतं परमं शिवम्।
ज्ञानेप्याकाशकल्पे हि सर्वो धर्मश्च चर्यते॥ १८६॥

एको रुद्रो न द्वितीयायतस्थे इत्यनन्तरुद्राः द्युलोके अन्तरिक्षे पृथिव्याञ्च अभितः पुरस्व्ताद् दक्षिणतः पश्चादुत्तरतः ऊर्ध्वाधश्च दिक्षु दशसु श्रितास्सहस्रशः। रुद्रात्मकरूपाणि नामात्मकानि कृत्वा तेष्वेव रूपाणि विलापयितव्यानि। रुद्रो लिङ्गमुमा पीठम्। रुद्रोर्थः उमात्वक्षरः। रुद्रो नरः उमा नारी। इत्यर्धनारीश्वर रूपेण शिवशक्त्यभिन्नतया सर्वं पश्यति॥ उमामहेश्वर इति व्यक्तं सर्वं बाह्यदृष्टिगोचरं उमारूपम्। यददृश्यं अग्राह्यं तदेव माहेश्वरं रूपमित्याहुः॥ ज्योतिःस्फाटिकलिङ्गमौळिरित्यौपचारिकमेव। मौळिरेव न दृष्टः ब्रह्मणापि जगत्कर्त्रा॥ पादोऽपि न दृष्टः विष्णुनाच। एतेन पादशिरसी न स्त एवेति सिद्धान्तः। सद्वस्तुनः अदर्शनमेव अज्ञानद्योतकम्।वन्ध्यापुत्रस्य ज्ञानं स नास्तीति भाव एव। सर्वज्ञेनापि न वन्ध्यापुत्रः गोचरीकर्तुं शक्यः। निरवयवः निर्गुणश्च शिवः परम एक एव पुरुषोत्तमः। एको देव इति श्रुतेः। सर्वत्राप्यमृतवर्षकदिव्यविग्रहः अमृतः हिरण्मयश्च।स य एषोन्तर्हृदय आकाशः यत्र सर्वं दृश्यते मायामयम्॥

Continued on Page 16.

HOMEPAGE

GITAMRTAMAHODADHI TITLE PAGE 

CONTENTS PAGE BRAHMAMRTAM LINK PAGE  (Ch.1) PRANAVAMRTAM LINK PAGE (Ch.2)         

JNANAMRTAM LINK PAGE (Ch.4)                    YOGAMRTAM LINK PAGE (Ch.5) ADVAITAMRTAM LINK PAGE